SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ स्वस्ति मंगलविधानम् श्री वृषभो नः स्वस्ति स्वस्ति श्री अजितः । श्री संभवः स्वस्ति स्वस्ति श्री अभिनंदनः ।। श्री सुमतिः स्वस्ति स्वस्ति श्री पद्मप्रभः । श्री सुपार्श्वः स्वस्ति स्वस्ति श्री चन्द्रप्रभः ॥ श्री पुष्पदंतः स्वस्ति स्वस्ति श्री शीतलः । श्री श्रेयान् स्वस्ति स्वस्ति श्री वासुपूज्यः । श्री विमलः स्वस्ति स्वस्ति श्री अनंतः । श्री धर्मः स्वस्ति स्वस्तिः श्री शांतिः ॥ श्री कुंथुः स्वस्ति स्वस्ति श्री अरनाथः । श्री मल्लिः स्वस्ति स्वस्ति श्री मुनिसुव्रतः ।। श्री नमिः स्वस्ति स्वस्ति श्री नेमिनाथः । श्री पार्श्वः स्वस्ति स्वस्ति श्री वर्द्धमानः ।। (पुष्पांजलिं क्षिपामि) नित्याप्रकंपाद्भुत केवलौघाः स्फुरन्मनः पर्यय शुद्धबोधाः । दिव्यावधिज्ञान बलप्रबोधाः स्वस्ति क्रियासुः परमर्षयो नः ।।१।। कोष्ठस्थ धान्योपममेकबीजं संभिन्न संश्रोत पदानुसारि ।। चतुर्विधं बुद्धिबलं दधानाः स्वस्ति क्रियासुः परमर्षयो नः ॥२॥ संस्पर्शनं संश्रवणं च दूरा - दास्वादनघ्राणविलोकनानि । दिव्यान्मतिज्ञान बलाद्वहन्तः स्वस्ति क्रियासुः परमर्षयोः नः ॥३॥ प्रज्ञा प्रधानाः श्रमणाः समृद्धाः प्रत्येक बुद्धा दशसर्वपूर्वैः । प्रवादिनोऽष्टांगनिमित्त विज्ञाः स्वस्ति क्रियासुः परमर्षयो नः ॥४॥ जंघावलि श्रेणि फलांबु तंतु प्रसूनबीजांकुर चारणाह्वाः । नभोङ्गण स्वैरविहारिणश्च स्वस्ति क्रियासुः परमर्षयो नः ॥५।। अणिम्नि दक्षाः कुशला महिम्नि लघिम्नि शक्ताः कृतिनो गरिम्णि। मनो वपुर्वाग्बलिनश्च नित्यं स्वस्ति क्रियासुः परमर्षयो नः ॥६।। सकामरूपित्व वशित्वमैश्यं प्राकाम्यमंतर्द्धिमथाप्तिमाप्ताः । तथाऽप्रतीघात गुण प्रधानाः स्वस्ति क्रियासुः परमर्षयो नः ॥७॥ प्रतिष्ठा-प्रदीप] Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy