SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ शान्ति पाठ शांतिजिनं शशिनिर्मलवक्त्रं शीलगुणव्रत संयमपात्रम् । अष्टशतार्चितलक्षण गात्रं नौमि जिनोत्तममम्बुजनेत्रम् ॥१|| पञ्चमभीप्सित चक्रधराणां पूजित मिन्द्र नरेन्द्र गणैश्च ।। शान्तिकरं गणशान्ति मभीप्सुः षोडशतीर्थंकरं प्रणमामि ॥२॥ दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिरासन योजन घोषौ । आतपवारण चामर युग्मे यस्य विभाति च मण्डलतेजः ॥३।। तं जगदर्चितशान्तिजिनेन्द्र शान्तिकरं शिरसा प्रणमामि । सर्वगणाय तु यच्छतु शान्ति मह्यमरं पठते परमां च ।।४।। येऽभ्यर्चिता मुकुट कुण्डलहाररत्नैः शक्रादिभिः सुरगणैः स्तुत पादपद्माः । ते मे जिनाः प्रवरवंश जगत्प्रदीपा स्तीर्थंकराः सततशान्तिकरा भवन्तु ॥५॥ संपूजकानां प्रतिपालकानां यतीन्द्रसामान्य तपोधनानाम् । देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवज्जिनेन्द्रः ।।६।। क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः । काले काले च मेघो विकिरतु सलिलं व्याधयो यान्तुनाशम् ।। दुर्भिक्षं चौरमारी क्षणमपिजगतां मास्म भूज्जीवलोके । जैनेन्द्रं धर्मचक्रं . प्रभवतु सततं सर्वसौख्यप्रदायि ॥७।। प्रध्वस्तघातिकर्माणः केवलज्ञान भास्कराः । कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वराः ॥८॥ इच्छामि भंते शांतिभत्तिकाउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाणसंपण्णाणं अट्ठमहापाडिहेरसहियाणं चउतीसातिसयविसेस संजुत्ताणं बत्तीसदेविंदमणिमउडमत्थयमहियाणं बलदेववासुदेव चक्कहर-रिसि-मुणि जदि अणगारोवगूढाणं थुइसयसहस्सणिलयाणं उसहाइवीरपच्छिम मंगलमहापुरिसाणं णिच्चकालं अच्चेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिनगुणसंपत्ती होउ मज्झं । आत्मपवित्रीकरणार्थं सकलदोष निराकरणार्थं सर्वमलातिचार विशुद्ध्यर्थं सर्वशान्त्यर्थं शान्तिभक्ति कायोत्सर्गं करोमि । विसर्जन जगतिशान्तिविवर्धनमंहसां, प्रलयमस्तु जिनस्तवनेन मे (ते) । सुकृतबुद्धिरलं क्षमया युतो जिनवृषो हृदये मम (तव) वर्तताम् ॥ मोहध्वान्त विदारणं विशद-विश्वोद्भासि दीप्तिश्रियम् । सन्मार्ग प्रतिभासकं विबुधसन्दोहामृतापादकम् ।। [प्रतिष्ठा-प्रदीप] [१३७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002630
Book TitlePratishtha Pradip Digambar Pratishtha Vidhi Vidhan
Original Sutra AuthorN/A
AuthorNathulal Jain
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1988
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy