________________
चन्दनैः चन्द्र संकाशैः कर्पूरादि विमिश्रितैः । जिन प्रासाद कुंभं वा स्वस्तिकेन विभूषये ।।
(इति स्वस्तिकं करोमि) जिनांघ्रि स्पर्श मात्रेण त्रैलोक्यानुग्रहक्षमाः । तेषां पुण्य समूहेन वृत्ता धार्याः वरस्त्रजः ॥
(पुष्पमाला धारणम्) पंचवर्णमयैः सूत्रै स्तंतुभिः सप्तभिः वरैः ।
कुर्वे रक्षा विधानं तत् कुंभकस्य च वेष्टनम् ॥
(इति पंचवर्ण सूत्रेण त्रिवारम् कलश वेष्टनम् करोमि।) ॐ हीं अनाहत विद्यायै असि आ उ सा क्लीं स्वाहा।।
(शांतिधारा) नाभेय प्रमुखाः सुपुण्यजनका सिद्धालये संस्थिताः । सिद्धाश्चाष्ट गुणैर्महर्षि पतयः सत्सूरयोऽभ्यर्चिताः ।। जीवाजीव विवेचनैक मनसः संपाठकाः साधवः ॥ ब्रह्मज्ञान परायणाश्च गुरवः सिद्धिं प्रयच्छन्तु नः ।
(इत्यार्शीवादः)
अंत में शान्तिपाठ करें कलश चढ़ाने की विधि आकरं च प्रभूतानां, यशसां संचयेन वा ।
प्रकल्पितं सुवृतं च शंकुं संस्थापयाम्यहम् ॥ ॐ हीं पर ब्रह्मणे मंदिरोपरि चिरस्थानाधिरूढ़ हे शंको ! स्थिरीभव स्थिरीभव
(इति शंकुस्थापनम्) ॐ हूं धूं फट् इत्यादि मंत्र से दशों दिशाओं में सरसों क्षेपण करें। (१) सद्धेम कुंभ घटितस्य सुकुंभकस्य । धाम्ना सुदीर्घमधि पीठमलंकरिष्णुिः ।
देवाधि देवभवने प्रथमं सुकुंभम् । भद्रेति नामकमहं विनिवेशयामि ।। ॐ ही परब्रह्म मंदिरोपरि कूटशिरः प्रदेशे हेमचन्द्र कुंभ महापीठ चिरं स्थायी भव सर्वप्रजानां क्षेमायुरारोग्य वृद्धयर्थम् तिष्ठ तिष्ठ याजक यजमानादीनां सर्व सौख्य विधानार्थं प्रत्यूह ट्यूह प्रणाशनार्थं हेमादिवि अत्र शिखरोपरि प्रथम स्थाने कल्पांतस्थायी भव इति भदकुंभ स्थापनम् । (२) स्वर्णरूपा प्रदीप्ता च चक्रवच्चक्रिकाच सा।
आदिपीठोपरिस्थाप्या स्वर्ण कुंभाधिरोहणे ॥ ॐ ह्रीं पर ब्रह्म मंदिरोपरि भद कुंभ स्थैर्यार्थ आदि पीठोपरि चक्रिकाधिरोहणं कुर्वे हे हाटक मय चक्रिके ! अत्र शिस्वर शिरः प्रदेशे द्वितीय स्थाने चिरं तिष्ठ। इति चक्रिका स्थापनम् । १२४]
[प्रतिष्ठा-प्रदीप]
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org