________________
परिशिष्टम्. १. प्रबन्धचिन्तामणिगुम्फितकतिपयप्रबन्धसंक्षेपः । द्वैपायन:- (४३४) न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥ एवं गुणोपेतपात्रभक्त्या मुक्तिः। इति प्रभुनिवेदिते श्रीसिद्धराजः सर्वधर्मान् आ०॥ सर्वदर्शनमान्यताप्रबन्धः॥
F३२१) मांगूः क्षत्रियः पाराच्यौ भूम्याम् । भोजने घृतकुतपः । दाढायां सोहल १, अपाटवे पथ्ये यवागूः ५ माना । अाहारे के वैद्येनोक्ते पुनः ५ माना । निषिद्धः । नृपेण निरा० । समयोचितम् । स्नानावसरे गजः 5 श्वानेन । तबलेन पीडितो मृतः॥ मांगूप्रबन्धः ॥
६३२२) ओतुना खद्धशुकसाकमृतश्रीजयकेशिराजानं श्रुत्वा निजतातपुण्याय श्रीमयणल्लदेवी श्रीसोमे० । त्रिवेदिनं विषं जलन्यासावसरे प्राह-यदि भवत्रयपातकं लासि, तदा ददामि नान्यथेति । गजादि तमै । सोऽपि ददानस्तयोक्तः प्राह-त्वं पूर्वार्जितपुण्येनेदृशी जाता। दानादिना भवेन भवः श्रेयस्करः। भवत्या भवत्रयपातकं मे पापघटं लात्वाधमः कश्चिद्विप्रः खं तदापकं च भवाम्भोधौ पातयति । मया तु वित्तमेतदादाय पुनर्ददता 10 लब्धादष्टगुणं पुण्यमिति ॥ पापघटप्रबन्धः ॥
६३२३) श्रीसिद्धे निशि सुप्ते वण्ठौ पराक्रम-कर्मणि प्रा० । (४३५) यदिह क्रियते कर्म तत्परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते ॥
नृपेण तदाकर्ण्य कर्मवि० । अपरदिने स्वप्रशंसकस्य लेखः। अस्मै वण्ठाय शताश्वसामन्तता देयेति । सान्तूपार्श्वे निश्रेण्या अङ्गभङ्गे मञ्चकेन गृहे, अपरो लेखं लात्वा गतः । प्रातःसामन्तता इति श्रुत्वा राजा कर्मैव ब०115 यतः-नैवाकृति० ॥ (४३६) यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनु धावति ॥ (४३७) नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगाः
विधिर्वन्ध्यः सोऽयं ननु विहितकमैकफलदः। फलं कर्मायत्तं तत्किममरैः किं च विधिना नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥
॥कर्मप्राधान्यप्रबन्धः॥ ६३२४) जातस्मृतिः श्रीमयणल्लदेवी श्रीसोमेशयात्रायां बाहुलोडपुरद्वासप्ततिलक्षपाटितपट्टा सपादकोटिमूल्यां हेमपूजां तुलापुरुषादिना सर्वान् प्री० । (४३८) सङ्ग्रहैकपरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ 25
रात्रावगतेशेनागतात्र कार्पटिका पुण्यं याच्यमित्युक्ता दर्पान्धा निजनरानायिता सती याच्यमानाप्यददाना कियद् व्ययितमित्युक्ताह-अहं भिक्षावृत्त्या शतयोजनानि......दीकृत्यात्रागता कल्ये कृतोपवासा पारणकदिने कस्माद् अपि खलं प्राप्य तत्खण्डेनेशं सम्पूज्य तदंशमतिथये दत्त्वा पारितम् । त्वं पुण्यवती यस्सा एवंविधं कुटुम्बदानादि । ममाल्पपुण्ये कथं लोभः । यदि न कुप्यसि तदा बुवे । ममाधिकं पुण्यम् । यतः
+ टिप्पण्या-एकोऽपि यात्रिकः पञ्चशती द्रम्माणां याच्यते । नरस्त्रीयुग्ममपि एतदेव । पश्चान्मातृ-पुत्रौ हस्ते लगित्वा गच्छतः । इत्यादि विप्लवं दृष्ट्वा मयणल्लदेवी०।
.
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org