________________
१३२
पुरातनप्रबन्धसङ्ग्राहे (४३०) नृपव्यापारपापेभ्यः स्वीकृतं सुकृतं न यैः।
तान् धूलिधावकेभ्योऽपि मन्ये मूढतमानरान् ॥
॥ इति श्रीरैवतकोद्धारप्रबन्धः ॥ ६३१८) अन्यदा श्रीसिद्धराजः श्रीसोमेश्वरयात्रां कृत्वा वलन् रैवतं गन्तुमिच्छविप्रैर्मात्सर्याल्लिङ्गाकारमिति 5 निषिद्धः श्रीशत्रुञ्जये आकृष्टकृपाणिकैविप्रेनिषिद्धो रात्रौ कार्पटिकवेषेणारुरोह । सरोमाञ्चं देववन्दनम् । द्वादशग्रामोद्ाहितं दत्तम् ।
६३१९) श्रीपत्तने आभडवणिग् कांस्यकारगृहे घर्घरादिना ५ विशोपकैराजीविकः । श्रीहेम० पार्श्वे २ प्रतिक्रामन् अधीतरत्नप० परिग्रहं प्रमाणीकुर्वन् प्रभुभिः सामु० द्रमा ३ [लक्षाः-टि०] मोकला मोचिताः । अन्यदा क्वापि ग्रामेऽजाव्रजं चरन्तं प्रेक्ष्य कण्ठे पाषाणं मूल्येन लात्वा मणिकारपार्थादुत्तेजितं श्रीसिद्धराजमुकु10 टावसरे लक्षद्रव्येण दत्तम् । तेन 'द्रव्येणागतमाञ्जिष्ठाठामानि क्रीत्वा तद्विक्रयावसरे सांयात्रिकैर्जलचौरभयात्तदन्तर्निहिता हैमकाम्ब्यः । ततः श्रीसिद्धराजमान्यो जैनप्रासादादि ॥ वसा० आभडस्य प्रबन्धः ॥
६३२०) अन्यदा श्रीसिद्धराजेन धर्मतत्त्वादिपृष्टेषु सर्वदर्शनिषु निजस्तुतिपरनिन्दकेषु आकारितश्रीहेमसरिः १४ विद्यारहसं विमृस्य पौराणिककथा
पुरा कश्चिद् व्यवहारी पूर्वोढां पत्नीं हित्वा सङ्ग्रहिणीकृतसर्वस्वः पूर्वया वशीकरणायाभ्यर्थितगौडदेशीयेनोक्तम्15 रश्मिवद्धां गामिव तव पतिं करोमीत्युक्त्वाऽचिन्त्यौषधं दत्त्वाऽऽहारान्तर्देयम् । तथाकृते पतिौंः । तत्प्रतीकारमजानन्ती विश्वविश्वाक्रोशान् स० । निजं निन्दन्ती एकदा मध्यन्दिने तापाक्रान्तापि शाड्वलभूमिषु तं चारयन्ती कस्यापि तरोस्तले विश्रान्ता विलपन्ती खे वाणीम० । तत्रागतो विमानारूढो भवो भवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य च तस्यैव तरोश्छायायां पुंस्त्वहेतुमौषधं तन्निबन्धादादिश्य ति० । सा तदनु तच्छायां रेखाङ्कितां कृत्वा तन्मध्यवर्तिन औषधाङ्कुरान् लात्वा मुखे क्षिः । तेनाप्यज्ञातौषधेन स गौर्नरः । यथा तदज्ञातमेष20 जाङ्कुरः समीहितकार्यसिद्धिं चकार, तथा कलियुगे मोहात् तिरोहितं पात्रपरिज्ञानम् । ततः सर्वदर्शनाराधनेन तदपि मोक्षदं भवतीति निर्णयः। तथा, द्वैपायन-युधिष्ठिरभीमसंवादे पात्रपरीक्षायाम्(४३१) मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः।
उभौ तौ द्वारि तिष्ठेते कस्य दानं प्रदीयते ॥ 25 युधिष्ठिरः- (४३२) सुखासेव्यं तपो भीम! विद्या कष्टदुरासदा।
विद्वांसं पूजयिष्यामि शरीरैः किं प्रयोजनम् ॥ भीमः- (४३३) श्वानचर्मस्थिता गङ्गा क्षीरं मद्यघटस्थितम् ।
अपात्रे पतिता विद्या किं करोति युधिष्ठिर ॥ टिप्पण्याम्-पत्नी प्रसूता दुग्धं न प्रामोति बालकः सीदति तदर्थमजां गृहीतुकामो गतः। नीलं जलं धूर्तव......ज्ञातं रत्नम् । गृहीता सा सटोकरा तन्मध्यरत्नम् ।
२ टिप्पण्यां-विसा० आभटेन पूर्वे निर्धनेन ९ लक्षाः परिग्रहपरिमाणे मुस्कलाः कृताः । पुनर्धने जाते तपोधनानां १ घृतघट प्रतिदिन सत्रुकारोऽवारितः । सदा साधर्मिकवात्सल्यम् । प्रतिवर्षे सर्वदर्शनार्चा । एवमप्रशस्तिप्रासाद-प्रतिमा-पुस्तकादि गुप्तवृत्या साधर्मिकादि दानादिपुण्यानि कृतानि । ८४ वर्षायुःप्रान्ते धर्मव्ययवहिकायां ९८ लक्षदर्शने खेदः । पुनः सुतैः २ लक्षे सप्तक्षेत्र्यां दत्वा अष्टलक्षीं च मानयित्वा कोटिः पूर्णीकृता । पुनः सुतास्ताशा एवाऽभवन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org