SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ वस्तुपाल-तेजःपालप्रबन्धः। (२२१) किं कुर्मः किमुपालभेमहि किमु ध्यायाम किं वा स्तुमः ___ कस्याग्रे स्वमुखं खदुःखमखिलं सन्दर्शयामोऽधुना। शुष्कः कल्पतर्यदङ्गणगतश्चिन्तामणिश्चाजरत् क्षीणा कामगवी च कामकलशो भग्नो हहा दैवतः॥ [सं०] १३०८ तेजःपालो दिवं जगाम । (B सज्ञके आदर्शे पुनरेतत्प्रवन्धान्ते निम्नगतानि वस्तुपालसम्बन्धिकाव्यानि प्राप्यन्ते-) (२२२) सेजवालकसहस्रचतुष्कं साधिकं पञ्चशतैश्च ।। पञ्चकं च शतपञ्चकमिश्रं स्यन्दनाभवरपिल्लिखिकानाम् ॥१॥ (२२३) शतानि चाष्टादशवाहिनीनां सुखासनानां प्रमितिस्तथैव । तपोधनानां द्विशतीसहस्रे शतं सहस्रं च दिगम्बराणाम् ॥ २॥ (२२४) त्रिंशद्विमिश्रा त्रिशती चराणां रत्नासनानां वृषशोभितानाम् । शतानि च त्रीणि तु मागधानां चतुःसहस्राश्च तुरंगमाणाम् ॥ ३॥ (२२५) अष्टौ महागाश्च चतुःशतानि लक्षास्तथा सप्तति मानवानाम् । श्रीवस्तुपालस्य कृताऽऽद्ययात्रासंख्येयमानन्दकरी जनानाम् ॥४॥ (२२६) स्वस्ति श्रीब्रह्मलोकात्कविजनजननी भारती ब्रह्मपुत्री धात्र्यां श्रीवस्तुपालं कुशल यति यथा कार्यमेतन्निवेद्यम् । योऽभूत्कल्पद्रुकल्पः सकलसुमनसां नाधुना सोऽपि भोज स्तस्मात्सीदन्त एते जगति सुकृतिना रक्षणीयास्त्वयैव ॥५॥ (२२७) स्वस्ति श्रीभूमिवासाद्विपिनपरिसरात्क्षीरनीराधिनाथः पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं बोधयत्यादरेण । अस्या आस्माकपुत्र्याः कुपुरुषजनितः कोऽपि चापल्यदोषो . निःशेषः शेषलोकम्पृणगुणभवता मूलतो मार्जनीयः॥६॥ (२२८) मुखमुद्रया सहाऽन्ये दधति करे सचिवमत्रिणो मुद्राम् । श्रीवस्तुपाल ! भवतो वदान्य ! तद्वितयमुन्मुद्रम् ॥ ७॥ (२२९) कीर्तिः कन्दलितेन्दुकान्तिविभवा धत्ते प्रतापः पुनः प्रौढिं कामपि तिग्मरश्मिमहसां बुद्धिर्बुधाराधिनी । प्रत्युज्जीवयतीह दानमसमं कर्णादिभूमीभुजस्तत्किञ्चिन्न तवास्ति यन्न जगतः श्रीवस्तुपाल ! प्रियम् ॥ ८॥ महं० यशोवीरेण(२३०) लक्ष्मी नन्दयता रतिं कलयता विश्वं वशीकुर्वता त्र्यक्षं तोषयता मुनीन्मुदयता चित्ते सतां जाग्रता। सङ्खऽसङ्ख्यशरावली विकिरता रूपश्रियं पुष्णता नैकट्यं मकरध्वजस्य विहितो येनेह दप्पंव्ययः ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002629
Book TitlePuratana Prabandha Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1936
Total Pages220
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy