________________
15
पुरातनप्रबन्धसङ्घहे ६१२७) एकदा मत्री तेजःपालो भृगुपुरमायातः । तत्र श्रीमुनिसुव्रतचैत्याचार्यैः श्रीरासिल्लसरिभिरुक्तम्मत्रिन् ! सन्देशकमेकं शृणुत । आदिश्यताम् । अद्य पाश्चात्ययामिन्यां वृद्धा युवत्येका समेत्य प्राह(१८२) तेजःपाल! कृपालुधुर्य ! विमलप्राग्वाटवंशध्वज!
श्रीमन्नम्बडकीर्तिरद्य वदति त्वत्सम्मुखं मन्मुखात् । आजन्मावधि वंशयष्टिकलिता भ्रान्ताऽहमेकाकिनी
वृद्धा सम्प्रति पुण्यपुञ्ज ! भवते सौवर्णदण्डस्पृहा ॥ इत्युक्ते मत्रिणा देवकुले देवकुलिका ७२ सहिते दण्ड-कलशाः सुवर्णमयाश्चकार । तस्मिन्कारिते तैरेव उक्तम्(१८३) कं कं देशमहं न गतः कौतुकलोभाविष्टः।
त्यागी तेजः पालादपरः कोऽपि न दृष्टः॥ 10 ६१२८) अथैकदा एकोदनियोगी गले सरावं बद्धा मत्रिणमायातः । पृष्टम् । देव! द्वात्रिंशत्सहस्राः श्रीपत्तने नृपवेश्मनि देयाः। त्वां संस्मृत्यायातः । मत्रिणा सहस्र १० दापिताः । श्रीस्तम्भे भृगौ गत्वा अन्यान् द्वादशसहस्रानानीय चिन्तितम्-याजयान्ये न भविष्यन्ति ।............अग्रेऽपि गृहीत्वा पुनरपि याचन् न लजसे । तेनोक्तम्-देव! (१८४) हृदि वीडोदरे वह्निः स्वाभावादुत्थितः शिखी ।
इति मे दग्धलजस्य देही देहीति का त्रपा ॥ ... मत्रिणा श्रुत्वोक्तम्-कियन्तोऽवशिष्यते ? । देव! दश सहस्राः; द्वादश मिलिताः । त्वां विना शेषेभ्यः को विमोचयति । मत्रिणा दश दापिताः । पुनरुक्तम्-निर्वाहं कथं करिष्यसि ? । देव! काष्ठतृणान्यादाय वर्तिष्ये । मत्रिणा सहस्राष्टकं निर्वाहाय वितीर्य प्रहितः। ६१२९) कोपि विप्रो मत्रिसभायामागतः । मत्रिणा उपवेशित इतस्ततो विलोक्य ऊचे(१८५) अन्नदानैः पयः पानैर्द्धर्मस्थानैश्च भूतलम् ।
यशसा वस्तुपालेन रुद्धमाकाशमण्डलम् ॥ कुत्रोपविश्यते ? । पुनर्वदेति सभ्यैरुक्तं नववारमुक्तं खिन्नः । नव सहस्रा दत्ताः ।] ६१३०) अथैकदा वामनस्थलीवास्तव्येन यशोधरेणोक्तम्
(१८६) श्रीवस्तुपाल तव भालतले जिनाज्ञा वाणी मुखे हृदि कृपा करपङ्कजे श्रीः। 25 देहे द्युतिर्विलसतीति रुषेव कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥
सहस्र १० दत्तिः । पं० माधवोक्तिःसरखतीसङ्गतकान्तमूर्ति.........॥
द्रम्मसहस्र ४० दत्तिः। ६१३१) द्वितीययात्रारम्भे श्रीनरचन्द्राचार्यैरुक्तम्30 (१८७) लक्ष्मि! प्रेयसि! केयमास्यशितिता वैकुण्ठ कुण्ठोऽसि किं ?
नो जानासि पितुर्विनाशमसमं सङ्घोत्थितैः पांशुभिः । मा भी रु ! गभीर एव भविताऽम्भोधिश्चिरं नन्दतात् स शो ललितापतिर्जिनपतेः लानाम्बुकुल्यां सृजन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org