________________
वस्तुपालतेजःपालप्रबन्धः ।
(१७) गम्भीरगेयभरगजिरवो सुवन्नालंकारताररुहविज्जुलयावयासो । दूराउ उन्नययरो भुवि तावहारी संघो घणु व घणदाणमिसेण वुट्ठो ॥
मुत्कलापनं काव्यम्
(१७३) खामिन्! समुद्रविजयात्मज ! विश्वनाथ ! न प्रार्थयेऽन्यदिह किन्तु तव प्रसादात् । एते मनोरथमयास्तरवो मदीयास्त्वदर्शनामृतरसैः सफलीभवन्तु ॥
5
तत्र पूजारात्रिकादि कृत्वा मन्त्री सङ्खेन सह देवपत्तनं गतः । तत्र चन्द्रप्रभ-प्रभासादिषु तीर्थेषु महिमां कृत्वा सोमेश्वराभोगं विधाय धवलकं प्राप्तो मत्री ।
(१७७) + लिखतु लिखतु धाता दुर्लिपिं भालभित्तौ भजतु भजतु सर्वोऽप्युग्रभावं ग्रहो वा । परमयमिह यावद्वस्तुपालः कृपालुर्न भवति खलु कष्टं विष्टपस्यास्य तावत् ॥ (१७८) या श्रीः स्वयं जिनपतेः पदपद्मसद्मा भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन सा सेवकेषु सुखमुन्मुखतामुपैति ॥ (१७९) पाणिप्रभा पिहितकल्पतरुप्रवालश्चौलुक्यभूपतिसभानलिनीमरालः । दिक्चक्रवालविनिवेशित कीर्त्तिमालः श्रीमानयं विजयतां भुवि वस्तुपालः ॥ सौरभ्यमालगुणमालतमालका...व्योमान्तरालकृतफालयशोमरालः । जीमूतकालरिपुकीर्त्तिमृणालिनीनां श्रीवस्तुपाल विजयी चिरकालमेधि ॥ - एवं कवीनां तत्र वाक्यानि ।
(१८०)
६१
$१२६) [$एकदा देवपत्तनात्पतितान्वया ईयुः । मत्रिणोक्तम् - देवो भव्यरीत्या पूज्यमानोऽस्ति ? । तैरुक्तम्-न । कथम् ?–
(१८१)
११२५) इतो [Ps. सङ्घ सम्भोज्य, वस्त्रादिना सत्कृत्य च ] वसाह आभडतनूजं सा० आसपालं आहूयोवाच - भोः ! त्वं वसाहपुत्रः ( P वसाहमुख्यः ) सङ्घमुख्यस्तव शत्रुञ्जये किं लग्नम् ? | द्रम्म चत्वारिंशत्सहस्राणि (४००००), रैवतके त्रिंशत्सहस्राणि ( ३०००० ) । देवपत्तने किं ? । तेनोक्तम् - तत्रास्माकं तीर्थेऽधिकतरम् १ | मंत्रिणा व्यतिकरः श्रुतः । यद्गुरुणा ब्राह्मणेनोक्तम्- प्रियमेलके स्नानं तदा स्यात्, यदा पूर्वतीर्थव्ययप्रायश्चित्ते 20 लक्षं द्विजेभ्यो दुग्धेन प्रक्षाल्य ददासि । तेन स्वीकृतम् । मत्रिणा प्रोक्तम् - शत्रुञ्जय - रैवतकस्य प्रायश्चित्तग्राहके मयि सति द्विजानां कथं वितीर्णम् । यदि दण्डयिष्यामि तदा जनापवादः । परं त्वमदृष्टव्यमुखः । तव पित्रा एका कोटी, ८ लक्षाः (Ps. षोडश लक्षाः ) धर्म्मव्यये कृताः । त्वमेवं कुरुषे । त्वमपायोऽतः परं सङ्घबाह्यथ । इत्यभिधाय विसृष्टो जनः । [Ps. स मत्रिचरणयोः पतित्वा लक्षद्वयं तीर्थेषु वितीर्य सङ्घमध्येऽभूत् । विप्राणां नामानि न गृह्णाति । मत्रिणा अन्येऽपि सङ्घलोकाः सम्भूष्य सम्भूष्य प्रहिता: । ]
नादत्ते भसितं सितं सचिव ! ते कर्पूरपूरं स्मरन् कौपीनेऽपि च कुप्यति प्रभुरसौ शंसन् दुकूलादिके । दिग्ध दुग्धरसैर्जलेषु विमुखः श्रीवस्तुपाल ! त्वया कर्पूरागरुमोदितः पशुपतिर्नो गुग्गुलं जिघ्रति ॥
Jain Education International
तेषां सहस्रा दश दत्ताः ।
+ एतानि पद्यानि Ps. आदर्श त्यक्तानि । ९ एतद्न्तर्गतं वर्णनं Ps. आदर्श एवोपलभ्यम् ।
For Private & Personal Use Only
10
15
25
30
www.jainelibrary.org