________________
10
वस्तुपाल-तेजःपालप्रबन्धः । यत्सईदस्य वाहनानि एकदा दोलायितुं प्रवृत्तानि । वस्तुवापनि (?) कृता अग्रे घू(धू?)नि भणित्वा रेणुः क्षिप्ता । गृहगतेषु पृष्टम्-किमायातम् ? । बह्वी लक्ष्मीः । तेनोक्तम्-समुद्रस्य रेणुरपि श्रेष्ठा । वखारि ता । एकदा दीपो रूमञ्जयां लग्नस्तस्य तापेन रेणुः स्वर्णीभूता । स वृत्तान्तो मत्रिणा श्रुतः । अतो याचिता । राणकेन दत्ता । गृहे टीपिः कृता । द्रव्यं स्वर्ण च दुकूलमौक्तिकादि प्रहितं राणकपार्श्वे । मत्री गतः । तत्र कविभिरुक्तम्
(१५०) मिलिते तद्दलयुगे तस्मिन् शङ्ख च चूर्णतां याते।
__ श्रीवस्तुपालमनिन् ! महीमुखे कोऽपि नवरङ्गः॥ ६१२१) एकदा भ्रातरौ आलोचे उपविष्टौ । द्रव्यं क सात्यते ?-एवं विमृश्यतोः मध्यं दिनं जातम् । इतोऽनुपमदेव्या चेटी प्रहिता-उत्सरं जातं देवताऽवसरस्य । तया अलब्धप्रत्युत्तरया खयमेत्य जगाद-अद्य कोऽयमालोचः १ । यदि कथनयोग्यो भवति तदा कथयत । इतस्तेजःपाले ईष्योपरे मत्रिणोक्तम्-वत्स! मा कुप! इयमति दक्षाऽस्ति, बुद्धिः पृच्छयते । .... (१५१) असकृन्मूर्खमप्यन्यं पृच्छेत् कार्ये समुद्गते ।
___ चपला मनसो वृत्तिवृद्धानपि हि मुह्यति ॥ पृष्टम्-असाकं श्रीायेनान्यायेन वा जाता। अस्याः स्थानमवलोकयावः । भूगता क्रियते जनवेश्मसु वा मुच्यते । किमपि गृहे नायाति । तया व्याहृतम्-यदि मे बुद्धिः क्रियते तदाऽक्षया स्यात् । सर्वः कोऽपि प्रकटां च पश्यति कोऽप्यात्तुं न पारयति । कथम् । प्रासादाः कार्यन्ते । उपरि स्वर्णकलशान् दत्त्वा, प्रशस्तौ द्रव्यं 15 सङ्ख्यते । सर्वः कोऽपि वाचयति, अत्र इयद् द्रव्यं लग्नम् , परं काणवराटकमपि गृहीतुं न पारयति । ज्येष्ठेनोक्तम्इदं वधूवाक्यमेवास्तु । भाग्यक्षये आत्मीयाप्यन्या भवति । तदनु स्नात्वा देवताऽवसरमाधाय, भुक्तोत्तरं पौषधागारे गतौ । यद्गुरवो वक्ष्यन्ति सैवोपश्रुतिर्नः प्रमाणम् । गुरवो नमस्कृताः। तैर्भणितम् । (१५२) कोशं विकाशय कुशेशयसंसृतालिं प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते ।
दोषोदये निविडराजकरप्रपातध्वान्ते समेष्यति पुनस्तव कः समीपम् ॥ नमस्कृत्योत्थितौ बहिर्निर्गतौ । विमृष्टम्-आवयोरुत्तरकालो न भव्यः। अतो द्रव्यं व्ययितुं लग्नौ । [Ps. स्थाने स्थाने सत्रागार-प्रासाद-पौषधशाला पारेभाते । वर्षमध्ये वार ३ संघार्चा । यति १५०० विहरणम् । $१२२) एकदा मत्री सुप्तोत्थितः पाश्चात्ययामिन्यां चिन्तयति(१५३) आशाराज इहाजनिष्ट जनको यस्य प्रशस्यावधि
ये......कुमारदेव्यथ कृती श्रीम............जः। तेजःपाल इति प्रधाननिवहेष्वेकश्च मन्त्रीश्वर
स्तजायानुपमा गुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥ (१५४) तेजःपालोऽनुशास्ति प्रवरतरमतिवीरराजस्य राज्यं
सामग्रीयं समग्रा खजनपरिजनोत्साहसम्पत्तिभिश्च । एवं पुण्यैर्दिनं मे पुनरसमयतः खेदमग्नो जनोऽयं
तद्गुर्वादेशमाप्य स्फुरितमतिरसावद्भुतं कर्म कर्तुम् ॥ ___ इति विचिन्त्य यावद्वारशालायामागत्योपविष्टः, तावद्द्वारपालेनोक्तम्-मत्रिन् ! श्रीपत्तनाद्गुर्वाशीर्वादकरो नरो दर्शनम[भिलपति] । प्रवेशय । स नरः समेत्य प्रणामपूर्वमाशीर्वादं करेणोदः ।
पु०प्र० स०8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org