________________
पुरातनप्रबन्धसङ्घहे तीर्थ [प्रति] प्राहिणोत् । मन्त्री तत्र गतः। नियोगिभिरुक्तम्-आदौ सईदगृहे गम्यते, तदनु उत्तारके । मत्री अनाकर्ण्य स्वोत्तारके गतः। तदनु सईदोऽपि मिलितुमागतः। मत्रिणं न[ त्वोपविष्टः। मत्रिणा तादृक् सम्भाषणं न कृतं [ परं] स्तोकं गौरवं कृतम् । यतः(१४९) *नयणिहिं रोसु निवारि वयणिहिं वरिसइ अमिअ रसु।
तलि दोरउ संचारि करि कांई जन वीसरइ ॥ इतो द्वितीयदिने मत्रिणा सईदो व्याहृतः । जलमण्डपिका द्रम्माणां लक्षैस्त्रिभिर्याच्यते । सईदेनोक्तम्-अर्पयतान्यस्य मया त्यक्ता । द्वितीयदिने उक्तम्-स्थलमण्डपिका द्रम्माणां लक्षपञ्चकेन याच्यते । तेनोक्तम्-ददत । सापि त्यक्ता । अपरेष्वपि व्यापारेषु स्वमनुष्यान् मुमोच । इतः सईदेन स्वमित्रं भृगुपुराधिपतिः सण्डेराजः
शङ्खलु (B खंडेराजः सांखलउ) आकारितः। स जलमार्गेणाश्वसहस्र २, मनुष्यसहस्र ५ समानीय समुद्रतटे 10 समुत्तीर्णः । इतः सईदेन मत्री व्याहृतः । शङ्ख समायातोऽस्ति, किश्चिद्दत्त्वा प्रेष्यते । मत्रिणोक्तम्-असाकं द्रव्यं
न हि । त्वद्गृहेऽस्ति; त्वं देहि । मदीये युद्धमेव । तर्हि चलत, यथा युध्यते । मत्रिणोक्तम्-त्वं स्वपरिकरेण ब्रज, वयं तु खपरिकरेण यास्यामः । मत्री अश्ववार ५० मनुष्यशतद्वयेन बहिर्निर्गतः । बलद्वयं बहिर्निर्गतम् । इतो मत्रिणा राजपुत्रा व्याहृताः । कः पूर्वमुत्थापनिकां विधास्यति । तदनु चालुक्येन (B चौलुक्यवंशजेन) भुवनपालेन बीटकं याचितम् । मया शङ्खो वृतः । केनाप्युक्तम्-मृतस्य किं प्रासादं करिष्यति मत्री ? । स किञ्चि15 क्षुब्धः। मत्रिणोक्तम्-यदि ते विरूपं भवति, तदा तव मानुषाणि निर्वाहयिष्ये प्रासादं च कारयिष्ये । ततस्तेनाश्वोत्थापितः-रे! यः शङ्ख स मे पुरो भवतु । तदनु एकेनाश्ववारेणोक्तम्-अहं शङ्खः । स भल्लेन हत्वा पातितः। अपरेणोक्तम्-सोऽपि पातितः । एवं षण्मारिताः। इतः शङ्खशरीरे गत्वोक्तम्-अहो मया ज्ञातम् । भृगुपुराधिपः शङ्ख एक एव । परं समुद्रस्य तीरभावादहवः । अहं हत्वा हत्वा श्रान्तोऽसि । ततः पत्तिभिस्तुरङ्गं हत्वा पातितः। शङ्खन चिन्तितम्-मम षण्मारिताः, अस्य त्वेकः । फलं न किमपि विमृश्य निवृत्तः । सईदेनोक्तम्-यदपि तदपि 20 दत्त्वा प्रहीयते । मत्रिणोक्तम्-त्वयाऽऽनीतस्त्वमेव देहि । इत्युक्ते स प्रहितः खस्थानम् । मत्रिणा भुवनपालस्य ऊर्द्धदेहिकं कृत्वा, भुवनपालेश्वरप्रासादस्तन्निमित्तं कारितः। इतो मत्रिणा तेजःपालपार्थात् अश्वशतद्वयम् , पदातिशतपश्चकम् , सौख्यासनमेकं चानायितम् । मत्रिणा पुरान्तर्वार्ता कृता-यद्राणकः श्रीवीरधवल एति । इति सम्मुखो निःसृतः । सईदोऽपि बहुना परिवारेण निःसृतः । आच्छादितं सुखासनम् , परं राणको न दृष्टः। उत्तारके गतो दर्शनं दास्यति । तत्रापि दर्शनं न लब्धम् । ततः सईदेन भीतेन पुनः शङ्खः समाहूतः । यद् युद्ध25 सजैर्भूत्वा समागम्यम् । अश्व सहस्र २, मनुष्यसहस्र १० दशकेन समाययौ । समुद्रादुत्तीर्य तटे स्थितः । मत्री
खपरिकरेण बहिनिःसृतः। मत्रिणा शङ्खस्य कथापितम्-यत्त्वं बलवानसि, क्षत्रियोसि, अहं वणिग्मात्रम् । तत आवयोर्द्वन्द्वयुद्धमस्तु । सोऽत्यर्थ बलवान् 'हृष्टः सन् काहले मत्रिणा सह प्रहर २ अयाचत् । सैन्ययोस्तटस्थयोर्युद्ध भवति । एवं दिन ३, चतुर्थदिने प्रहरैकसमये मत्रिणा पाश्चात्यस्थेन जानुना लत्तादानात् शङ्खः पातितः । तत्कालं शिरश्छेदमकरोत् । ततः शङ्खसैन्यं हताहतं नष्टुं लग्नम् । अश्वाधादाय मत्रिणा मुक्तम् । तस्मिन् हते सईदो नंष्ट्वा 80 समुद्रमध्ये गतः। मत्रिणोक्तम्-त्वां कोऽपि न मारयति । मया शङ्खो हतः, त्वं व्यवहारी कथं नष्टः १ तेनोक्तम्
यदि मे जीवेऽभयं ददासि तदाऽऽगच्छामि । मत्रिणा तथेति आहूतः। भोजनार्थ गृहे आकारितः। अङ्गमईकैरङ्गानि टालितानि । [तेनोक्तम्-मत्रिन् ! किमिदम् । मयोक्तम्-न मारयिष्यामि जीवन्तं मोक्ष्यामि । ततस्त्वं जीवबसि] जीवन्मुक्तः स्वयमेव व्यथया मृतः । इतस्तस्य गृहे मनुष्याणि मुक्तानि । धवलक्के कथापितम्-यत्सईदो हतस्तस्य सर्वस्वं राजकुले [नीतम्] । परं महान् व्यवहारी तस्य गृहधूलिममास्तु । मत्रिणोऽग्रे केनाप्युक्तम्___ * P आदर्श एतत्पद्यं नास्ति । । एतदन्तर्गता पंक्तिः P आदर्श पतिता। 1 एतदन्तर्गतः पाठः परित्यक्तः P आदर्शे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org