________________
मुक्त्यर्थमत्यर्थमुपैतु सेवां देवान्तराणां किमुत ब्रवीमि । संसारकारान्धगृहाजनोऽयं विमोक्ष्यते त्वद्वचसैव देव ! ॥५॥ प्रागेव दुष्कर्म कियन्न मूढेरुपार्जितं देव ! पुनर्यदेषाम् । देवान्तरोपासनया प्ररूढं बभूव यन्नाम नृणामृणार्णम् ॥ ६॥ उद्दामपुण्यद्रुमपीठबन्ध ! निर्व्याजबन्धो ! भुवनत्रयस्य । अन्धे भवान्धौ मम निर्विलम्बं प्रयच्छ पित्सोः स्वकरावलम्बम्॥७॥ इदं मदन्तःकरणं व्यधास्त्वं स्वां राजधानीमिति मे प्रमोदः । तथाऽप्यरीणां भयमान्तराणां निवर्त्तते नेति मनाग विषादः॥८॥ अगाधता मे मनसः किमेषा सामर्थ्यमन्तर्द्विषतामथेदम् । तवाऽथवोदासिरियं यत्र त्वमेकतः कौतुकमन्यतोऽमी ॥ ९ ॥ मिलन वाऽन्तर्द्विषतां च किञ्चिन्मनो बभूवोभयचेतनं मे । खेनैव संयम्य जिनाधिराज मयाऽर्पितं तेन तवेत्यवेहि ॥१०॥ पश्य प्रमुग्धस्य पुरन्ध्रिसारीक्रीडासु कामः कितवः कथं मे। श्रेयोधनं त्वञ्चरणप्रसादप्राप्तं हरत्यक्षपराजितस्य ॥ ११ ॥ विकल्परूपाः समिधः समाधिवह्नावुरुज्योतिषि जुह्वतो मे । त्वत्पादसेवाक्रतुयज्वनोऽक्षरक्षोभवक्षोभहरोऽभवस्त्वम् ॥ १२॥ न मे त्वदुक्तागमसिन्धुमध्यमग्नं मनो मीन इवेदमास्ते । बकोटवञ्चाऽयमटाट्यमानः कामस्तटीं नोज्झति किं करोमि ? १३ उपार्जिताल्पेतरपुण्यपण्यः शरण्य ? वैराग्यपुरं प्रवेक्ष्यन् । अहं त्वदीयागमपत्रहस्तोऽप्यलं विलम्ब्ये स्मरशौल्किकेन १४ प्रभो प्रमादस्थलचारिणं मे मनोमृगं व्याध इवातिहिंस्रः। आः कामिनीविभ्रमपाशबद्धं स्मरः शरैविध्यति किं विध्याम्११५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org