SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥५॥ __इति श्रीअजितजिनस्तवनम् । श्रीसम्भवजिनस्तवनम् ॥३॥ श्रीसम्भवः सम्भवतीर्थनेता विराजतेऽसौ मदनैकजेता। जयावहं शस्तमसूत माता येकं जितारिक्षितिकान्तकान्ता ॥ १ ॥ दामार्चितः स्वर्णधनप्रदाता नयैरभाद् यः समताविधाता। गतिं स शैवी भुवनैकपाताऽच्छास्पिदं यच्छतु धीजनेता ॥२॥ घिनोतु युष्मान् गुणवृक्षजातारामः स सत्पूर्वपंथानुयाता । जगन्मता नीतिसुताऽतिपूता पापापहा येन जने प्रसूता ॥ ३ ॥ दौर्जन्यपर्जन्यसमीरपाता भवन्मतिः कस्य समस्तसाता । जाता न सैनेय ! सदाऽभिभूताऽमितारिरुद्धृतवसन्तसूता ॥ ४ ॥ इति मुदितमनस्को मूर्धगाचार्यनामा अक्षरकमलनिबन्धैबन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ ... स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥५॥ इति श्रीसम्भवजिनस्तवनम् । १ श्रियः सम्भवो यस्मात् सः। २ यम्। ३ शिवं-मोक्षस्तरसम्बन्धिनीम्। ४ न च्छाया देहो येषां तेऽच्छायाः सिद्धास्तेषां आस्पदं स्थानम् । ५. सन्मार्गगमनकरः। ६ नीतिरूपा पुत्री। ७ सेनाया अपत्यं सैनेयस्तस्य मम्बोधनम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy