SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६८ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः॥ ५ ॥ __इति श्रीयुगादिजिनस्तवनम् । श्रीअजितजिनस्तवनम् ॥२॥ मुखश्रिया तर्जितरात्रिकान्तं निरन्तरायं जिनराजिकान्तम् । नाथे जिनं मुक्तिरमामकान्तं यमाश्रयं मुक्तसमस्तकान्तम् ॥ १॥ कम्राकृतिं नाथमहं महान्तं श्रीमन्तमीडे जितशत्रुजातम् । । विज्ञैः परीतं जितशत्रुजातं जयन्तमप्युद्धतचित्तजातम् ॥ २ ॥ यस्य क्रमद्वन्द्वमिभो नृनूतं सेव्यं सुरैराश्रयति स्म शान्तम् । नत्वा तमानन्दरमानिशान्तं सूपात्तसौख्यं विदधे निशान्तम् ॥ ३ ॥ रिरंसया मुक्तमिमं वहन्तं प्रभुत्वमत्यद्भुतमर्तिवान्तम् । वशाभिरक्षुब्धमुपैति दान्तं रोः खत्विषा येन जितो नितान्तम् ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः ।। १ चन्द्रम् । २ जिनाः सामान्यकेवलिनस्तेषां राज्या पङ्कया कान्तं-मनोहरम्, अथवा जिनराज्याः कान्तं-पतिम् । ३जिनं मुक्तिलक्ष्मी याचे। ४ अकस्यदुःखस्य अन्तो यस्य यस्माद्वा तम् । ५ जितशत्रुपुत्रम् । ६ जितं, शत्रुजातं वैरिसमूहो येन स तम् । ७ निशाया भन्तं निशान्तम् । ८ योषाभिः । ९ सुवर्णम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy