SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६२ श्रीचन्द्रप्रभजिनस्तवनम् । यस्याऽमरा न विदधुर्नतिमडिपीठ सङ्घट्टलम्पटललालतटीभृतोऽपि । रूपे क्षणक्षणवियोगमहाभयेन चन्द्रप्रभः प्रभुरसौ तनुताच्छिवं वः ॥ १ ॥ चन्द्राङ्कश्चन्द्रमूर्तिर्वदनजितशरच्चन्द्रमाश्चन्द्रदाता माया कण्ठेऽर्धचन्द्रः स्मरशबरहतावर्धचन्द्रश्च बाणः । जातश्चन्द्राननायां पुरि शिवपुरगाचन्द्रकश्चन्द्रकीर्तिदेवश्चन्द्रप्रभोऽव्यात् कलिमलविलये चन्द्रवञ्चन्द्रलक्ष्या ॥२॥ दृष्टोऽपि हृष्टजनलोचनचन्द्रकान्ति मश्रान्तमान्तरजलाविलमादधानः । चन्द्रप्रभो जयतु चन्द्र इवेश! मित्रं चित्रं पुनः शुभशताय यदष्टमोऽपि ॥ ३ ॥ ... नाशिक्यनामनि पुरे च सुरेन्द्रवन्धः कुन्त्याः सुतैः सह तया सतताभिवन्द्यः । चन्द्रप्रभः प्रभुरसौ शिवसौख्यहेतुः __सञ्जायतां तनुमतां भववार्धिसेतुः ॥ ४ ॥ शशाङ्कलक्ष्मा सकलर्द्धिहेतुर्विभूतिमान् सर्वगदापहारी । जिनेश्वरो वः श्रियमातनोतु प्रभासनाथोऽधिकमष्टमूर्तिः ॥५॥ इति चन्द्रप्रभजिनस्तवनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy