________________
२४६ भारद्वाजगृही (१३) चतुर्थतविषे
लेखो (१४) द्विजः स्थावरः (१५) । नाकी पञ्चमके सुरालयवरे
(१६) श्रीविश्वभूतिर्नृपः (१७) .. शुक्रे निर्जरकुञ्जरो (१८) ऽत्र भरते
विष्णुखिपृष्ठोऽभवः (१९) ॥ २५ ॥ सप्तम्यां भुवि नारको (२०) मृगपति
(२१) स्तुर्यावनौ नारकी (२२) चक्री च प्रियमित्रकः (२३) सुरवरः
शुक्रे (२४) नृपो नन्दनः (२५)।
कल्पे देवः (१२) भारद्वाजनामा विप्रः ४४ पूर्वलक्षायुः (१३) माहेन्द्रकल्पे सुरः (१४) ततो भवभ्रमः, [१] राजगृहे नगरे स्थावरनामा द्विजः ३४ पूर्वलक्षायुः सर्वम् (१५) एतेषु षट्सु भवेषु देवलोकान्तरितेषु विप्रत्वं प्राप्तः, आयुःप्रान्ते च त्रिदण्डीव्रतं चाऽङ्गीचकार श्रीवीरः, ततः ब्रह्मलोककल्पे सुरः (१६) ततो वीरभवभ्रमः, [२] राजगृहनगरे युवराजपुत्रो विश्वभूतिनामा राजा, वर्षसहस्रं व्रतं प्रपाल्य सर्वायुः वर्षकोटीप्रमाणं च निदानं कृत्वा (१७) महाशुक्रे देवः (१८) ततः पोतनपुरे प्रजापतिनामा राजा, मृगावती राज्ञी, तयोः सुतस्त्रिपृष्टनामा वासुदेवः, अशीतिधनुर्देहश्चतुरशीतिवर्षलक्षायुः सर्वं (१९) सप्तमनरके गतः (२०) सिंहस्तिर्यक्षु (२१) चतुर्थनरके गतः (२२) तिर्यङ्मखंभवभ्रमः [३] विदेहे धनञ्जयराजा, धारणी राज्ञी, तयोः पुत्रः प्रियमित्रनामा चक्री वर्षकोटिं यावदुत्कृष्टं तपस्तत्वा चतुरशीतिपूर्वलक्षायुः सर्वं च प्रपाल्य (२३) शुक्लकल्पगे सर्वार्थसंज्ञे विमाने सुरः (२४) अत्र भरते छत्रापुर्यां जितशत्रुराजा, भद्रा राज्ञी, तयोः सुतो नन्दननामा राजा, चतुर्विंशतिवर्षलक्षी राज्यं कृला पोटिलाचार्यपार्श्व व्रतमादाय वर्षलक्षं यावत् मासक्षपणं विना पारणकं न चकार एवं सर्वाग्रेण ११ लक्षान मासक्षपणानां कृतवान्, सर्वायुः पञ्चविंशतिवर्षलक्षानू भुक्त्वा प्रान्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org