________________
२१३
यस्यां किं किल याचितुं तव पुरः शङ्खश्रियः शाश्वतीः स श्रीनेमिजिनः प्रणम्रभुवनस्तात्रेतु तात्रेतु नः ॥ २२ ॥ मूर्ति यायजतीश ! ते सुमनसां भयैव ये सच्छ्रिये नूनं याजतीह राज्यविभवैर्देपालवत् तेऽङ्गिनः । ये वा जाजपतीद्धमत्रमणिवत्ते यस्य नामान्यहो पापूर्याच्छिबिनो गुणांश्च सकलान् श्रीपार्श्वनाथः स नः २३ मूर्ति मामदति स्म वीक्ष्य जिन ! ते देवाधिदेव ! प्रभावत्याद्या इव ये परीप्रति हि तान् देवर्द्धयः सिद्धयः । येनाजायि हरिर्बलादिह महावीरो वरीवर्त्यसौ
यं सिंहोऽङ्कमिषान्नृसिंहमभजत् श्रीवर्धमानः श्रिये ॥ २४ ॥ एवं ये वृषभादयो जिनचतुर्विंशाः प्रवावन्दिता लक्ष्मीसागरसूरिराजपनिता रत्नत्रयीनन्दिताः ।
भजीं सेवायाम्, भज् यङ्लु० सुखविज्ञानाऽनन्तलक्षणाः दैङ् त्रैङ् पालने, त्रै यङ्लु० षण्मु चा० द्वित्वम् १९ अस्माकम् ॥ २२ ॥ यजीं देवपूजायाम्, संग० यज् यङ्लु० व० अन्ति, हर्षश्रियै त्रिष्वप्यर्थेषु पृथग् ज्ञेयः जप मानमेव, जप् यङ्लु॰ व अन्ति, दीप्रमणिवत् नामानि ते तव पृश् पालनपूरणयोः पृ० यङ्लु० स० यात् ६४ अस्माकम् सिद्धिवतो गुणान् ॥ २३ ॥ मदैव् हर्षे, मद् यङ्लुबन्त० व० अन्ति, अन्तो न् लोपः दृष्ट्वा हे सर्वज्ञ ! तक देवतानामधिदेव ! श्रीवर्धमान ! प्रभावत्याद्या राज्ञाया इव, येन भवता जिज अभिभवे, जि० अद्य० दिव् । प्र० अड् धा० अड् हरिः सिंहः वृतूङ् वर्तने, वृत् यङ्लु० यङ् तु० ईत् रि रौरी राग ० व० ति० त्रिभुवनप्रत्यक्षः, भजीं सेवायाम् भज् अद्यत • दिव् स जगत्प्रसिद्धः स्तुविति ग्राह्यम् ॥ २४ ॥ प्र पू० वदङ् स्तुत्यभिवादनयोः, वद् यङ्लु० त० प्र० श्रीसमुद्रा ये सूरयः सूर्या राजानश्चन्द्रास्तैः पनि स्तुती, क्तप्र० ज्ञानादित्रयीनन्दिताः भुवनत्रय विख्याताः
०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org