SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१२ येतात्रासिषुराशु भाविभविका याज्ञां शिरश्छेखरां ते डोढौकतु तान् प्रतीन्द्रनिकरांस्त्वन्मित्रवत् स्वःश्रियः । श्रीमल्ली जिनपादपद्मयुगली यैरर्च्यते यस्य ते स श्री कुम्भभवो भवोदधिरजो भीभ्योऽपि पापेतु नः ॥ १९ ॥ कर्मैधांसि निदन्दहीति जिन ! ते जापाग्निना दाववत् सेन्द्रादीनपि जाहसीति विभवैर्वर्धिष्णुभी रामवत् । यस्यां द्वितयी मुदं सुमनसां लालेति सीतेन्द्रवत् स श्रीमान्मुनिसुव्रतो जनिततेन जोगुणीत्वार्तितः ॥ २० ॥ ये शाशङ्कति धर्मतत्त्वकृतये शैवर्द्धये ते विभो ! प्रालोलोकति तेऽङ्गिनो हि नरकात् सप्तापि चार्वाकवत् । ये शाशंसति यं नमिं नवनवैः स्तोत्रैः सुरेन्द्रादिवत् ते शाशंसतु किंनु नो अतिशयाः सर्वेऽपि तेषां रिपून् ॥ २१ ॥ व्यक्षेषु प्रभुता शिरोवहनता मे बोभवी दक्षिणा वर्ताख्याऽपि वरीवरीति विभवाच्छङ्गोऽपि बाभक्ति ताम् । MORE THERE ARE तीर्थकरोऽरोऽस्माकम्, मोक्ष एव धनं यस्य ॥ १८ ॥ दैङ् त्रैङ् पालने, त्रै यड्लु० अद्य सिवियमिनम्येति इट् सोऽन्तश्च अतानासीत्, सिष्टाम्, सिषुः, सीः, २० ढौकृङ् नौकृङ् टीकूङ् लघुङ् गतौ, ढौक्, यङ्लु० व० अन्ति, २० पांक् रक्षणे, पा० यङ्लु० पं० तुव् ३३ अस्माकम् ॥१९॥ दहं भस्मीकरणे, निं० पू० दद्द् यङ्लु० १९ हसे हसने, हस् यङ्लु० १९ लांक आदाने, ला० यङ्लु० ३३ अस्माकम् गुपौ रक्षणे, गुप् यङ्लु० १६ पीडातः ॥ २० ॥ रङ् शङ्कङ् शङ्कायाम् । शक् यङ्लु० २० प्राङ् पू० लोकङ् दर्शने, लोक् यङ्लु० ॥ २१ ॥ शंस् स्तुतौ, चाद्धिंसायाम्, शंस् यङ्लु० १९ ते त्रिजगतीप्रसिद्धातिशयः हिंसन्तु द्विष इति सम्बन्धः २१ । द्वीन्द्रियाद्येषु नाथता भू । सत्तायाम्, भू यङ्लु • ८. वृतुङ् वर्तने, वृत् यङ्लु० २७ ता भुवनविख्याता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy