________________
१७९
अशुभनम उपार्श्व न्यकृतामं सुपार्श्व
वृजिनविपिनपार्श्व हे जिना देवपार्श्वम् ॥ २३ ॥ त्रिदशविहतमानं सप्तहस्ताङ्गमानं
दलितमदनमानं सद्गुणैर्वर्धमानम् । अनवरतममानं क्रोधमत्यस्यमानं
जिनवरमसमानं संस्तुवे वर्धमानम् ॥ २४ ॥ जिन ! तव गुणकीर्तेर्विश्वविन्नस्तकीर्ते
विगलदपरकीर्तेर्यद्गिरा धर्मकीर्तेः।।
इति काव्यकल्पलतावचनात् । तत्समीपे हि तस्य चन्द्रमौलित्वेन तमसामपास्तिविदितैव गुणसंस्थानत्वात् पशुसमूहम् ॥२३॥ कन्दर्पदर्प, अनहङ्कार, अत्यर्थं क्षिपन्तम् । अश भक्षणे 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् , अनन्यसदृशम् ॥२४॥ अथ सामान्येन जिनसिद्धांश्च स्तौति, जिनो वृषभादिवीतरागः श्रीपुण्डरीकादिसिद्धो वा । गुणानां कीर्तने । अत्र कीर्तनं कर्तः भावकोंर्घञ् प्र० तस्मिन् मम गी: ईर्ते प्रसरति । किंभूते ? सर्वविघ्नान् स्तकति प्रतिहन्तीति तस्मिन् । ष्टक स्तक प्रतिघाते इति वचनात् । विगलन्ती हीनगुणत्वाद् भ्रश्यन्ती. अपरेषामन्यदेवानां कीर्तिर्यस्मात्तस्य । यद्वा अपरा प्रकृष्टा विगलन्ती अपकीर्तिर्यस्मात्स तस्य । यद्यस्माद्धातोः ममेति गम्यम् । इह गीःशब्दस्य व्यञ्जनान्तस्याऽकारान्तता भागुरिमताज्ज्ञेया। धर्मनृपप्रसादस्य, उक्तं च-'कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि च।' चन्द्रोज्वलयशसः शुद्धस्य मिथ्यात्वादनालीढस्य धर्मस्य जीवाजीवादिपदार्थानामुपनिषदो दानादिभेदस्य वा, एका यथास्थितत्वादद्वितीया कीर्तिः कीर्तनं कथनं यस्य यस्माद्वा स तस्य, यदवादि 'धर्मों यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि' । एवं विधगुणविशिष्टस्य । हे जिन ! तव गुणान् कीर्तयन् मम गीः प्रसरति, तदिति गम्यम् । तत्तस्माद्धेतोः स्तवं स्तुति अहं अचिकीर्ते विस्तारितवान् , अतिशायिनी । 'कृतं पर्याप्तयुगयोर्विहिते हि सिते फले' इति वचनात् , कृत्ता विनाशिता अर्थाच्छोषिता, अनङ्गः कामरस एव कीर्तिः कर्दमो येन, कृतण संशब्दने, कृतः कीर्तिरिति कीर्तादेशः, चुरादिभ्यो णिच् प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org