________________
अर्थश्रेणिसुगन्धिपुष्पनिकरैः संवासिताशामुखो __ देयान्मोक्षफलं जरामृतिहरं भव्यावलीनां सदा ॥ ३ ॥ श्रीमन्नादिजिनेन्द्रपादकमलपोद्यन्नखालीविभा
श्रेणीनव्यपरागपूरमधुपः श्रीगोमुखो यक्षराट् । विघ्नौघप्रबलान्धकारनिकरप्रध्वंसनेऽहर्मणि
भव्यानां सततं तनोतु विशदा नानाविधाः सम्पदः ॥४॥
श्रीमज्जिनस्तवनम् । श्रीकुङ्कणाख्यविषयस्थितपत्तनश्री
सोपारकावनितलामलभूषणाम!। श्रीमद्युगादिजिननायक! मूलिना
भक्त्या वहे तव पदाब्जयुगं जिनेश ! ॥ १ ॥ राज्यं विहाय सकलं तृणवद्गृहीतः ___ श्रीसंयमो नरसुरासुरसाक्षिकं यैः । ते तीर्थपा ऋषभदेवमुखाः सुखानि __त्रैलोक्यलोकनिवहस्य सदापि दद्युः ॥ २ ॥ श्रीतीर्थनाथमुखपङ्कजजन्मभूमि
र्मोहान्धकारनिकुरुम्बविनाशभानुः । उद्भासिताऽखिलजगत्रितयस्वरूपः __ श्रीआगमो दिशतु मे शिवसौख्यलक्ष्मीम् ॥ ३ ॥ सोपारकप्रवरतीर्थपतेः पदाब्जं __ या सेवते मधुकरीव मुदा सदापि । चक्रेश्वरी सुरसुरीनिकरेण सेव्या
सा सङ्घलोकनिवहस्य सुखं चिनोतु ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org