SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बुः प्रभवप्रभुर्गतभवः शय्यंभवः श्रीयशो भद्राख्यः श्रुतकेवली च चरमः श्रीभद्रबाहुर्गुरुः । शीलस्वर्णकषोपलः सुविमलः श्रीस्थूलिभद्रः प्रभुः सर्वेऽप्यार्यमहागिरिप्रभृतयः कुर्वन्तु वो मङ्गलम् ॥ ११ ॥ श्यामाचार्यसमुद्रमङ्गसहिताः श्रीभद्रगुप्तादयः श्रीमान् सिंहगिरिस्तथा धनगिरिः स्वामी च वज्रामिधः । . श्रीवीरो मुनिरार्यरक्षितगुरुः पुष्यो गुरुः स्कन्दिलः __ श्रीदेवर्द्धिपुरस्सराः श्रुतधराः कुर्वन्तु वो मङ्गलम् ॥ १२ ॥ ब्राह्मी चन्दनबालिका भगवती राजीमती द्रौपदी कौशल्या च मृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि ___ पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥ १३ ॥ तीतानागतवर्तमानविषयाः सर्वेऽपि तीर्थङ्कराः ___ सिद्धाः सूरिवराश्च वाचकवराः सर्वेऽपि सत्साधवः । धर्मः श्रीजिनपुङ्गवैर्निगदितो ज्ञानादिरत्नत्रयं श्रीमन्तो जिनसिद्धसाध्वतिशयाः कुर्वन्तु वो मङ्गलम् ॥१४॥ शाश्वताशाश्वतान्येवं चैत्यानि पुरुषोत्तमाः। भवेभ्यो मङ्गलं दधुः स्तुताः श्रीधर्मसूरिभिः ॥ १५ ॥ इति श्रीचैत्यस्तुतिस्तोत्रं समाप्तम् । लिपीकृतमिदममृतविजयेन सूर्यपुरस्थितेन जीवचन्दपठनार्थे सं. १८३९ चैत्र सुद ३ शुक्रवासरे ॥ कल्याणमस्तु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy