SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारगिरिष्वशीतिरनघा नन्दीश्वरे विंशति_ स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ ५ ॥ वैताठ्ये रथनूपुरादिनगरस्तोमे विदेहेष्वपि क्षेमादिर्नगरव्रजोऽस्ति भरतेऽयोध्या तथैरावते । सौर्य कुण्डपुरं तथा गजपुरी चम्पा च वाणारसी ___ तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ ६॥ अस्त्यानन्दपुरं फलर्द्धिनगरी श्रीसत्यनाम्ना पुरं नासिक्यं भृगुकच्छमङ्गलपुरं सोपारकं विश्रुतम् । मोढेरं मथुराणहिल्लनगरं श्रीस्तम्भनं पावनं तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ ७ ॥ ख्यातोऽष्टापदपर्वतो गजपदः सम्मेतशैलाभिधो वैभारः कनकाचलोऽबुंदगिरिः श्रीचित्रकूटादिकः । श्रीमान् रैवतकः प्रसिद्धमहिमा शत्रुञ्जयो मण्डप स्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ ८ ॥ देवाः श्रीऋषभाजितप्रभृतयः श्रीपुण्डरीकादयः ___ श्रीमन्तो भरतेश्वरप्रभृतयः श्रीबाहुबल्यादयः । श्रीमद्रामयुधिष्ठिरप्रभृतयः प्रद्युम्नशाम्बादयः श्रीमद्गौतममुख्यसाधुयतयः कुर्वन्तु वो मङ्गलम् ॥ ९ ॥ यस्मात्तीर्थमिदं प्रवृत्तिमगमत् श्रीमत्सुधर्मो गुरु धन्यो धन्यमुनिः सुकोशलमुनिः श्रीशालिभद्रामिधः । मेतार्योऽथ दृढप्रहारिसुयतिर्मेघो दशार्णामिधः श्रीश्रीमत्करकण्डुमुख्ययतयः कुर्वन्तु वो मङ्गलम् ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy