SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०९ रणभुवि किल भङ्गे मारवीरेण दूरे सममिह परिहीणा पञ्चबाणी रयेण ॥ ७॥ सममिह हिमभाजिदेहदन्तोरुकूलं धय धवलकरालं सारिभावारिणेदम् । समलममलयन्तं भूविहायोऽहिगेहं हिमकरधरमंके देवदेवं नुवामि ॥ ८ ॥ नरवरकुरुरामा नामरामालिचूडा- मणिभुवमभवन्तं चित्तवासे वसन्तम् । नवमममलभासं भासमिद्धोरुभाल च्छलधवलकराभा संकरेणेव विद्धम् ॥ ९॥ निरवमतमनन्दासुन्दरोदारतुन्दि स्थलसलिलरुहाली केवली केवलाय । नवमरसनिलिम्पाहारसाराभिरामं नवमचरमकुण्डं किंनु भूखण्डमण्डि ॥ १० ॥ योगः अर्थात् सुपार्श्व, समं युगपत् परित्यक्ता पञ्चफणानां पञ्चबाणीवेत्युत्प्रेक्षा ॥ ७ ॥ युगपदिव इदं चाऽमलयन्तमित्यत्र योज्यम् , हिमभासां जैत्रदेहस्य दन्तानां तथोरुकूलंधय उस्तटस्थायी यो धवलकरो लाञ्छनचन्द्रस्तस्य चात्यर्थप्रसारिकान्तिजलेन क्रमात् पृथ्व्याकाशपातालानि निर्मलयन्तमिव, अहे चन्द्रभृतं अर्थाच्चन्द्रप्रभम् ॥ ८ ॥ रामानाम्नी या स्त्रीश्रेणिचूडामणिस्तजं सुविधिमित्यर्थः, चित्तवासस्थाने वसन्तं कुर्वित्यन्वर्थः, शुक्तः कान्तिदीप्तो गुरुश्च यो भालच्छलाद् धवलकरश्चन्द्रस्तत्कान्तिसङ्गमेन व्याप्तमिव सन्तममलभासम् ॥९॥ अनिन्द्यतमाया नन्दायाः सुन्दरोदारा या तुन्दिः कुक्षिस्थलकमलेऽलिः भ्रमरः, अर्थाच्छीतलः अस्त्विति योगः, शान्तरस एव निलिम्पाहारः सुधा, नवमचरमं दशममित्यर्थः, पाताले नव सुधाकुण्डानि शीतलस्तु भूखण्डस्थं दशमं सुधाकुण्डसिव ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy