SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०७ अर्हम् । संस्कृत - प्राकृत - शौरसेनी - भाषात्रयसमम् चतुर्विंशतिजिनस्तवनम् । अमरगिरिगरीयो मारुदेवी देहे कुवलयदलमालाको मला कुन्तलाली । सजलजलदपावन्नु सन्नीलकण्ठी धवनिवहममन्दं नन्दयन्ती जयाय ॥ १ ॥ असमसमरलीलालालसाभावरूप च्छलपरबलहेलाभङ्गरङ्गगमीव । करिवरपरिधारी वो विमोहावहारी भवजयिविजयाभू रङ्गभूमी रमासु ॥ २ ॥ भविविभुमभिवन्दे संभवं संभवन्तं निबिडजडिमभङ्गेऽभङ्गरङ्गेण गेयम् । अथाऽवचूरिः । सुवर्णाद्विगरिष्ठं यत् श्री ऋषभसम्बन्धि देहे तस्मिन्नर्थादसलक्षणे कुवलयदलश्रेणिश्यामा जटा । सजलजलदमालेव साक्षात् सन्त एव नीलकण्ठीधवा मयूरास्तत्समूहम्, अमन्दं यथा स्यादेवं समुल्लासयन्ती जयायाऽस्त्वित्यध्याहारः ॥ १॥ असमसमरलीलायां लालसा भावो येषामीदृशा ये भावरूपाइछलपराः शत्रवो रागादयस्तत्सैन्यभङ्गाद्यो रङ्गस्तङ्गनिद्यन्निवाङ्कन्मिषात् (?) करीन्द्रधारी अन्योऽपि यः शत्रुजयैषी स्यात् करीन्द्रसङ्ग्रहं करोति । अस्त्वित्यध्याहार्यं । भवजयी यो विजयाभूः श्रीभजितः, रङ्गस्थानं सकलनीविषये यथा नर्तक्यो रङ्गभूमौ लास्यलीलां कलयन्ति तथा विश्वश्रियः श्री अजिते इत्यर्थः ॥ २॥ भविनां प्राणिनां प्रकरणाद्गुणभृदादिकानां तृतीयजिनम्, निबिड डिनो भने सम्भवन्तं घटमानमित्यर्थः, अर्थादिन्द्रादिमिः अङ्क कैतवाते १ एतद् चिह्नचिह्नित स्थलस्याऽवचूरिः प्रायत्रुटिता. Jain Education International For Private & Personal Use Only , www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy