________________
तवांही वन्दते साऽनुकम्प यः साऽय भावतः । तस्य नानागुणस्याऽन्यो नम्यो नो नोदितैनसः ॥ १७ ॥
(शरः) तत्परः सततं शिश्रीषामि त्वां दारिताहसम् । सम्पदादाऽपसंसार रसाऽसन्तमसं मत ॥ १८ ॥
(त्रिशूलम्) नमाऽनाश्रितशर्माशु नेहमन्द दयान्वित । तथा त्वत्तः सुरेश त्वं केतुबोधिधियं हितः ॥ १९ ॥
(वज्रम्) यस्तेऽष्टादशचित्रचक्रविमलं वीर ! स्तवं सश्रियं
भत्तयैवं कुलमण्डनोऽति महाज्ञानातनुश्रीशुभ !। मुक्तश्रीयुतचन्द्रशेखरगुरुप्राज्यप्रसादादमुं __ तं तातात वरैः स शान्ततम शं भासा ततः सन्ततम्।।२०॥
(परिधिकाव्यम्) चक्राऽयोमुखशूलशङ्खसहिते सुश्रीकरीचामरे
सीरं भलंशरासने असिलता शक्त्यातपत्रे रथैः । कुम्भीऽर्द्धभ्रमपङ्कजानि च शरस्तस्मात् त्रिशूलार्शनी चित्ररेभिरभिष्टुतः शुभधियां वीर! त्वमेधि श्रिये ॥२१॥
॥ इति श्रीवीरस्तवः ॥
१ साऽय० । अयेन भाग्येन विद्यते इति साय स्तस्याऽऽमन्त्रणम् । २ नाना अनेकप्रकाराः। ३ नोदितमेनः पापं येन ॥ १७ ॥ ४ शिश्रीयषामि श्रयितुमिच्छामि । ५ दारितं अंहोऽघं येन । ६ संपदो ददातीति । अपगतः संसार यस्य । ७ न विद्यते संतमसं यस्य ॥ १८ ॥ ८ आशु शीघ्रम् । ९ नेहे न प्रार्थये इति भावः । १० अतत अकृत । ११ अमुं स्तोतारम् अव । १२ वरोऽनन्यसामान्यगुणमयखात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org