SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तविषे लैसत्यमोहाशय चारुरुचायशः । शक्राली त्वन्नतेर्ज्ञानभासुराऽपंपरा सुभीः ॥ १३ ॥ (रथपदम्) तवीत्यवीतसाराज्ञा प्राणिनां प्रास्तभीः शुभा। भाराशेऽशेषभावारीन् शिवदा तव रंहसा ॥ १४ ॥ (पूर्णकलशः) तत्त्वसार तरसा ना त्वयि राज्य दधीरसा। सॉराद्भुतेऽमोह धीरा रज्यते वीर मोद॑तः ॥ १५ ॥ (अर्धभ्रमः) तरसाऽस्तैमोहत्वेत तत्वेह प्रशमान्वित । तन्विमान्यवनीतात ततानीष्टींन्यसारत ॥ १६ ॥ (कमलम्) १ तविषे खर्गे । २ लसति क्रीडति । ३ अमोह आशयो यस्य । ४ चारुणी रुचायशसी यस्य ! रुचाशब्दोऽत्राबन्तः 'टापो विधिं हलन्तानां यथा वाचा निशा गिरे' त्यादि भागुरिवचनात् । ५ तव नतिस्वन्नतिस्तस्या हेतुभूतायाः। ६ अपपरोऽपगतशत्रुः । ७ सुष्ट भीः यस्याः ॥ १३ ॥ ८ तवीति हिनस्ति । ९ अवीतं अगतं सारं यस्याः। १० भासां भानां वा राशिरिव राशिस्तदामन्त्रणम् । ११ शिवं ददातीति शिवदा ॥ १४ ॥ १२ तत्त्वेन सारः। १३ तरसा वेगेन । ना पुमान् । १४ धियो रसा पृथ्वी आधार इत्यर्थः । १५ सारं बलं तेनाद्भुते। १६ हे अमोह ! मोदतः प्रमोदात् । १७ हे वीर ! वयि रज्यते ॥ १५ ॥ १८ तरसा जवेन । १९ अस्तो मोहो येन सोऽस्तमोहस्तस्य भावोऽस्तमोहत्वं तत् इत । हे क्षीणमोह ! मोहादिगुणस्थानकप्राप्तेत्यर्थः । २० तत्त्वे ईहा यस्य । २१ तनु विस्तारय । २२ इमानि मनोरथशतप्रार्थ्यमानत्वेन प्रत्यक्षाणि । २३ हे अवन्याः पितः। २४ इष्टानि वाञ्छितानि ज्ञानादीनीत्यर्थः । २५ हे न्यसायां -लक्ष्म्यां रत । ॥ १६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy