________________
चतुर्विशतिप्रबन्धे [९ श्रीबप्पभट्टिसूरिलेप्यमयबिम्बचतुष्टयं च कारितम्- एकं 'मथुरा'याम्, एकं 'मोढेरवसहिका'या मणहिल्लपुरे', एकं 'गोपगिरौ' एकं ‘सतारकाक्ष'पुरे । तत्र तत्र प्रतिष्ठाः प्रभावनाश्च कारिताः । अन्यदपि बह्वकारि ।
५ अथ आमगृहे पुत्रो जातः सुलक्षणः । सोत्सवं तस्य दुन्दुक
इति नाम प्रतिष्ठितम् । सोऽपि युवत्वे तैस्तैर्गुणैः पितृवत् पप्रथे । एकदा समुद्रसेनभूपाधिष्ठितं 'राजगिरि' नामदुर्ग आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यन्त्रभेदाः
कल्पिताः । प्राकारोऽतिबलेन प्रपातयितुमारेभे । नापतत् । १० आमः खिन्नः । तेन सूरयः पृष्टाः- अयमभ्रंलिहः प्राकारः
कदाऽस्माभिहिष्यते ? । सूरिभिर्बभाषे- तव पुत्रपुत्रो भोजनामाऽमुं प्राकारं दृक्पातमात्रेण पातयिष्यति, अन्यो नैव । आमस्त्यक्तारम्भः प्राकाराद् बहिादशाब्दीमस्थात् । ३त्रुदेशमात्मसाच्चके ।
दुन्दकगृहे पुत्रो जातः । तस्य 'भोज'नाम ददे । सञ्जातमात्रः १५ पर्यङ्किकान्यस्तो दुर्गद्वाराप्रमानीतः प्रधानैः । तदृक्प्रपातमात्रेण
प्राकारः खण्डशो विशीर्णः । समुद्रसेनभूपो धर्मद्वारे निःसृतः । आमो 'राजगिरि'मविक्षत् । प्रजामारो न कृतः । अक्रूरा हि जैना महर्षयः राजर्षयश्च दयापरास्ते । रात्रौ आमाय 'राजगिर्य'धिष्ठात्रा भाणतम्- राजन् ! यदि त्वमत्र स्थास्यसि तदा तव लोकं हनिष्यामि । आमः प्रत्यूचे- लोकेन हतेन किं ते फलम् ? । यदि हनिष्यसि तदा मामेव घातय । एतनिर्भयमामवचः श्रुत्वा तुष्टो व्यन्तर उवाच- प्रीतोऽस्मि ते सत्त्वेन, याचस्व किश्चित् । राज्ञोचे- न किमपि न्यून मे, केवलं कदा मे मृत्युः ब्रूहीदम् । व्यन्तर उवाच- षण्मासावशेषे आयुषि स्वयमेत्य वक्ष्यामि ।
२०
१ 'तारकाख्यपुरे'। २ क-ख-घ 'कृप्ताः'। ४ ग-पातयिष्यते' । ५ क-'धर्मद्वारेण' ।
३ ग-'सूरिभिर्बभणे' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org