SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराहये अन्यदा सौधोपरितलस्थेन आमेन कापि गृहे भिक्षार्थं प्रविष्टो मुनिर्दृष्टः । तत्र युवतिरेका कामार्ता गृहागतं मुनिं परब्रह्म कचित्तं रिमयिषुः कपाटसम्पुटं ददौ । मुनिर्नेच्छति ताम् । तया मुनये पादतलप्रहारे दीयमाने नूपुरं मुनिवरचरणे प्रविष्टं 'काकतालीय' न्यायेन 'अन्धवर्तकी' न्यायाच्च । राजा तद् दृष्ट्वा सूरये समस्यां ददौ— कंत्राडमासज्ज वरंगणाए अन्भत्थिओ जुव्वणगव्वियाए । सूरि : प्राह "न मन्नियं तेण जिइंदिएण सनेउरो पव्वइअस्स पाओ ॥ १ ॥ " अन्यदिने प्रोषितभर्तृकाया गृहे भिक्षुः कश्चिद् मिक्षार्थी प्र- १० विष्टः । राज्ञा सौधाप्रस्थेन दृष्टः । तथा भिक्षोः पारणायान्नमानीतम् । उपरि काकैर्भक्षितम् । मुनिकस्य दृष्टिस्तस्या नाभौ “स्थिता । तस्यास्तु दृष्टिस्तन्मुखकमल । आमः सूरये समस्यामा - पिंपत् । यथा - 'भिकूखयरो पिच्छ नाभिमंडलं सा वि तस्स मुहकमलं । सूरिराह 'दुहं पिकवालं चडूयं पि काया विपति ॥२॥ इति आमः श्रुत्वा चमत्कृतः । अहो सर्वज्ञपुत्रका एते ! | अन्यदा कोsपि चित्रकृद् भूपरूपं लिखित्वा उपभूपं गतः । बप्पभट्टिना श्लाघिता तत्कला । नृपात् तेन टङ्ककलक्षं लेभे । २० १ घ- 'तम्' । २ छाया - कपाटमासाद्य वराङ्गनयाऽभ्यर्थितो यौवनगर्वितया । 3 - 'अम्भुस्थिओ' । ४ छाया - न मतं तेन जितेन्द्रियेन सनूपुरः प्रव्रजितस्य पादः ॥ ५ उपजातिः । ६ ग - 'अन्यदा' । ७ ग- 'पतिता' । आर्या ! ८- ९ छाया - भिक्षाचरः पश्यति नाभिमण्डलं साऽपि तस्य मुखकमलम् । द्वयोरपि कपालं चाटुकमपि काका विलुम्पयन्ति ॥ १० Jain Education International १५ For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy