SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [९ श्रीबप्पभट्ठिसूरि मैयनाहिसुरहिए-णं इमिणा किंकरफलं णलाडेणं । इच्छामि अहं जिणवर !, पणाम किंण कलुसियं काउं? ॥१॥ दो वि गिहि (ह)त्था धडहड वचई, को किर कस्य विपत्त भाणिज्जई ?। सारंभो सारंभ पुज्जइ,कद्दमु कद्दमेण किम(मु) सुज्ज(ज्झ)इ ?॥२॥ 'अत्यासन्ने आयुषि 'मथुरा'चातुर्वर्ण्यस्य आमनृपसचिवलोकस्य च प्रत्यक्ष अष्टादशपापस्थानानि त्याजितः । नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः । जीवेषु क्षामणां कारितो वापतिः सुखेन त्यक्ततनुर्दिवमगमत् । तत् सर्व प्रधानैरन्यैरपि प्रथमं ज्ञापितो नृपः । पश्चाद् बप्पभट्टि र्गोपगिरिं' गतः । राजा तुष्टस्तुष्टुवे सूरिशक्रम्१० आलोकवन्तः सन्त्येव, भूयांसो भास्करादयः । कलावानेव तु प्राव-द्रावकर्मणि कर्मठः ॥१॥ एकदा राज्ञा सूरिः पृष्टः- किं कारणं येनाहं ज्ञातजैनतत्त्वोऽपि अन्तराऽन्तरा तापसधर्मे रतिं बध्नामि ? । सूरिराह- प्रातर्वक्ष्यामः । प्रातरायाताः प्रोचुः-राजन्! अस्माभिर्भारतीवचसा तव प्राग्भवो ज्ञातः । त्वं 'कालिञ्जर'गिरेस्तीरे शालनामा तपस्वी शालद्रुमाधोभागे द्वयुपवासान्तरितभोजनस्तपो बहूनि वर्षाण्यतपथाः । स मृत्वा त्वमुत्पन्नः । तस्यातिदीर्घा जटास्तत्रैव लतान्तरिता अंद्याषि सन्ति । तदाकर्ण्य आप्तनरास्तत्र राज्ञा प्रहिताः। तैर्जटा अनीताः । सूरिवाक्संवादो दृष्टः । भूपतिः सूरीणां पदोविलग्य तस्थौ । पर२० मार्हतो बभूव । १ख-'मयताए' सुर०', ग- 'मेयनाए'। २ छाया- मृगनामिसुरमितेनानेन किटरफलं ललाटेन । ___ इच्छाम्यहं जिनवर ! प्रणाम किं कलुषितं कर्तुम् ।। ३ छाया---द्वावपि गृहस्थी शीघ्रं शीघ्रं व्रजतः कः किल कस्य विपत्तिं भणेत् ।। ___ सारम्भः सारम्भं पूजयति कर्दमः कर्दमेन किमु शुध्यति॥ १ एतच्छन्दोनाम नावगम्यते । ५ घ. 'प्रत्यासन्ने' । ६ ग- 'भूप० । ७ क-ख-'क्षमणां'। ८ अनुष्टुप् । ९ ग-'जटा तत्रैव' । १० ग-अचाप्यस्ति । ११ ग-'आनीता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy