SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८७ २ प्रबन्धा ] प्रबन्धकोशेत्यपराह्वये षण्मासावशेषे आयुषि पुनरागतः सः । राज्ञोक्तम्- कियन्मे आयुरिति ? । व्यन्तरो वदति- देव ! 'गङ्गा'ऽन्त'गिधे' तीर्थे, नावाऽवतरतः सतः । मकाराद्यक्षरग्रामोप-कण्ठे मृत्युरस्ति ते ॥१॥ षण्मासान्ते इति विद्याः । पानीयान्निर्गच्छन्तं धूमं यदा द्रक्ष्यसि ५ तदा मृत्युर्ज्ञातव्यः । साधना च कार्या पारलौकिकी। इति गदित्वा गतो देवजातीयः । राजा प्रातः सूरिपार्श्व गतः । सूरिरुवाचराजन् ! यद् व्यन्तरेण वोऽने कथितं आयुःप्रमाणं तत् तथैव । धर्मपाथेयं गृह्णीथाः । तदाकर्ण्य भूपस्तुतोष विसिष्मिये च । अहो ज्ञानम् ! अथवा विस्मय एव कः ? । सूरस्तेजस्वी, इन्दुराल्हादकः, १० 'गङ्गा'ऽम्भः पावनम् , जैना ज्ञानिन इति । दिनद्वये गते सूरिः श्रीआमस्य पुरः प्रसङ्गेन श्रीनेमिनाथस्याशीर्वादं पपाठ । यथालावण्यामृतसारसारणिसमा सा 'भोज'भूः स्नेहला ___ सा लक्ष्मीः स नवोद्गमस्तरुणिमा सा 'द्वारिका' तद् बलम् । ते गोविन्द-शिवा-समुद्रविजयप्रायाः प्रियाप्रेरकाः १५ यो जीवेषु कृपानिधिय॑धित नोद्वाहं स नेमिः श्रिये ॥२॥ भूयोऽपिमग्नैः कुटुम्बजम्बाले, यैमिथ्याकार्यजर्जरैः । 'नोजयन्ते' नतो नेमि-स्ते चेजीवन्ति के मृताः ? ॥२॥ तथा 'रैवतक'तीर्थमहिमा सूरिभिर्व्याख्याय पल्लवितः । यथा २० भूमिमाहत्योत्थाय परिकरं बद्ध्वा सरभसं भूपः प्रतिशुश्राव-'रैवतके' नेमिमवन्दित्वा मया न भोक्तव्यमिति । लोकैर्निषिद्धःराजन् ! मा, मा; दूरे 'वतिको' गिरिः; मृदवो भवादृशाः । १ घ-'आयुः । २ क-'मगध'। ३ अनुष्टुप् । ४ ग-'आयुष्प्रमाणं'। ५ ख-'प्रियाः प्रेरकाः' । ६ शार्दूल० । ७ घ- 'काम' । ८ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy