________________
KA
चतुर्विशतिप्रबन्धे [९ श्रीबप्पमट्टिसूरिराजाऽऽह- प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमो लक्षमेकं पृष्ठवाहा वृषभाः करमसहस्र २० हस्तिशत ७ अश्वलक्षमेकं पदातिलक्षत्रयं श्राद्धकुटुम्बसहस्र २० सारसैन्यैर्वात्रिंशदुपवासैः 'रैवतका याचालीत् । 'स्तम्भन'तीर्थ यावद् गतः। तत्र क्षुत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् । भीतो लोकः । खिन्नः सूरिः मन्त्रशक्त्या कूष्माण्डीदेवीं साक्षादानिनाय । तदने कथयामास- तत् कुरु येन राजा 'जेमति जीवति च। तद्वचनात् कूष्माण्डी बिम्बमेकं महच्छिरसा बिभ्रती गगने
न आमसविधं गता ऊचे च- वत्स! साऽहमम्बिका । तव १० सत्त्वेन तुष्टा । गगने आगच्छन्ती मां त्वं साक्षादद्राक्षीः । मयेदं
'रैवतैकदेशभूतादवलोकनाशिखरान्नेमिनाथबिम्बमानीतम् । इदं वन्दख । अस्मिन् वन्दिते मूलनेमिर्वन्दित एव । कुरु पारणकम् । सूरिभिरपि तत् समर्थितम् । लोकेनापि स्थापितम् । तद् बिम्बं
वन्दित्वा राज्ञा ग्रासग्रहणं चक्रे । अद्यापि तद् बिम्बं 'स्तम्भ'तीर्थे १५ पूज्यते । 'उज्जयन्त' इति प्रसिद्ध तत् तीर्थम् । हृद्यातोद्यानि ध्वान
यन्नामो 'विमलगिरौ' वृषभध्वजं सोत्सवं वन्दित्वा यावद् 'रैवताद्रिं गतः तावत् तत् तीर्थ दिगम्बरै रुद्धम्, श्वेताम्बरसङ्घः प्रष्टुं न लभते । आमेन तज्ज्ञातम् । ज्ञात्वोचे- युद्धं कृत्वा निषेद्धृन्
हेत्वा श्रीनेमि नस्यामि । तावत् तन्त्र दिगम्बरभक्ता एकादश राजा२० नो मिलिताः । सर्वे युद्धकतानाः । तदा वप्पभट्टिना भाणित
आमः- राजेन्द्र ! धर्मकार्ये पापारम्भः कथं क्रियते ? । लीलयैव तीर्थमिदमात्मसात्करिष्ये । भवद्भिः स्थिरैः स्थेयम् । एवं भूपं प्रबोध्य बप्पभट्टिरुपदिगम्बरमुफ्तद्भक्तं भूपं च नरं प्रहित्याबभाणत्- इदं तीर्थ यस्याऽम्बिका दत्ते तस्य पक्षस्य सत्कमिति मन्यध्वे । तैरु
१ ख-घ-'आमः सारसैन्यै रैवतकां.'। २ 'जमे' इति भाषायाम्। ३ क-ख-समर्पितम्। । ग- तावता'। ५ घ-'हत्वा नेमि'। ६ घ-राजन् !' । ७ घ- 'तक्तभूपं'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org