________________
प्रबन्ध
प्रबन्धकोशेत्यपराह्वये क्तम्-युक्तमेतत् । ततो बप्पभट्टिना 'सुराष्ट्रा'वास्तव्यानां श्वेताम्बरीयाणां दिगम्बरयिाणां च श्रावकाणां शतशः कन्यकाः पञ्चसप्तवार्षिक्यो 'मेलिताः । मिलिताः सभ्याः। बप्पभट्टिना अम्बादेवीपार्थात् कथापितम्– यदि सर्वाः 'श्वेताम्बरश्रावककन्यकाः
"उजिंत'सेलसिहरे दिक्खा नाणं निस्सी(सी)हिया जस्स। ५
तं धम्मचक्कवष्टिं अरिट्टनेमि नमसामि "॥१॥ इति गाथां पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थम्, पक्षान्तरे तु दिगम्बरीयं तीर्थमिति । तत आनीता मुग्धबालिकाः । सर्वाभिः श्वेताम्बरपक्षश्रावकबालिकाभिः पठिता सा गाथा । अपरासु तु नैकयाऽपि । ततो जातं श्वेताम्बरसाद् 'रैवत'तीर्थम् । अम्बिकया १० स्वःस्थया पुष्पवृष्टिः श्वेताम्बरेषु कृता । ततो नंष्ट्वा दिक्पटा 'महाराष्ट्रा'दिदक्षिणदेशानगमन् । राज्ञाऽन्यैरपि सर्वसधैश्चिरात् तत्र मिलितैनेमिर्नेमे । वित्तं ददे । 'प्रभासे' चन्द्रप्रभः प्रणेमे । बन्दिमोक्षः सर्वत्रापि कारितः । आमस्य भुक्तौ 'गूर्जरा दिदेशास्तदा तीर्थानां चिरं पूजोपयोगिनो हट्टाद्या याः(१) प्रक्लुप्ताः । एवं कार्याणि १५ कृत्वा ससूरिनृपो 'गोपगिरि' प्राविशत् । सङ्घपूजादिमहास्तत्र नवनवाः । प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः । आपृष्टः सः। लोकोऽपि क्षमितः । अनृणो देशः कृतः । सह सूरिणा नावाऽऽरूढो 'गङ्गा'सरित्तीरे तीर्थ 'मागधं' मतः । तत्र जले धूमं दृष्टवान् । तदा सूरीन्द्रमक्षमयत् । संसारमसारं विदन् अनशनमगृह्णात् । २० समाधिस्थः श्रीविक्रमकालात् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदे शुक्लपञ्चम्यां पञ्च परमेष्ठिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि रुरुदुः । चिरप्रीतिमोहो दुर्जय एव । सेव
१ ख-मिलिताः' । २ 'श्वेताम्बरकन्यकाः' । ३ छाया--'उज्जयन्त'शैलशिखरे दक्षिा ज्ञानं निषेधिका यस्य ।
तं धर्मचक्रवर्तिनमरिष्टनेमि नमस्यामि ॥ ४ आर्या । ५ ग--'नष्टा' । ६ ग-प्राप्तकाले । ७ घ--'गङ्गां सह तोरे'। चतुर्विशति. ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org