SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे . [ ९ श्रीनप्पटिसूरि कास्तु चक्रन्दुः-हा शरणागतरक्षावज्रकुमार! हा राजस्थापनदाशरथे! हा अश्वदमननल ! हा सत्यवारयुधिष्ठिर! हा हेमदानकर्ण! हा मज्जाजैनत्वश्रेणिक ! हा सूरिसेवासम्प्रते! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्याशातवाहन! अस्मान् विहाय क्व गतोऽसि । दर्शयैकदाऽस्मभ्यमात्मानम् । मैकाकिनो मुश्च । एवं विलपन्तस्ते सूरिभिः प्रतिबोधिताः-- भो भो सत्यं दैवेन पापेन । 'आलब्धा कामधेनुः सरसकिशलयश्चन्दनश्चूर्णितो हा छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः । १० दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला ___ भग्नः कुम्भः सुधायाः कमलकुवलयः केलिहोमः कृतोऽयम् ॥१॥ तथापि मा शोचत मा शोचत, यतःपूर्वाह्ने प्रतिबोध्य पङ्कजवनान्युत्सार्य 'नैशं तमः कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा । १५ मध्याह्ने सरितां जलं प्रेविसृतैरापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत्॥१॥ इति लोकं निःशोकं कृत्वा लोकेन सह सूरि गर्गोपगिरि'मगात् । सूरिभिर्दुन्दुको राजा आमेन आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूण्युद्गरन् हिमम्लानपमदीनवदनश्चिन्ताचान्तस्वान्तो बभाषे२० राजन् ! कोऽयं महतस्तव पितृशोकः ? । स हि चतुर्वर्ग संसाध्य कृतकृत्यो बभूव । यशोमयेन देहेन चाचन्द्र जीवन्नेवास्ते । पुण्यलक्ष्मीः कीर्तिलक्ष्मीश्चेति द्वे नरस्योपकारिण्यौ वल्लभे । पुण्यलक्ष्म्याश्च कीर्तेश्च, विचारयत चारुताम् । स्वामिना सह पात्येका, परा तिष्ठति पृष्ठतः ॥१॥ २५ अन्योऽप्येवंविधः कोऽपि भवतु । इत्येवंविधाभिर्वाग्भिर्दुन्दुक रात्रिसम्बन्धि । ५ १ क- 'प्रबोधिताः । २ ख-'आलब्ध्वा' ।। स्रग्धरा। ग-'प्रविशत०' । ६ शार्दूल । ७ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy