________________
प्रबन्धः ] प्रबन्धकोशेत्यपराह्वये राजं सूरिराजो निःशोकमकार्षीत् । दुन्दुकः शनैः शनैः परमाईतोऽभूत् । राजकार्याणि अकार्षीत् । त्रिवर्ग स समसेविष्ट । ___ एवं वर्तमाने काले एकादा दुन्दुकश्चतुष्पथे गच्छन् कण्टिका नाम गणिकामुदाररूपां चिद्रूपां युवजनमृगवागुरां मदनमायामयीमालोकिष्ट । तां शुद्धान्तस्त्रीमकार्षीत् । तया दुन्दुकस्तथा वशी- ५ कृतो यथा-- यदेव सा वदति तत् सत्यम् , यदेव सा करोति तदेव हितं मनुते । सा तु कार्मणकारिणी वाक्पटुः सर्व राज्यं ग्रसते हिमानीव 'चित्रम्, भोजमातरं पद्मां नाम अन्या अपि राज्ञीरन्वयवतीविनयवतीर्लावण्यषतस्तृिणाय मनुते ।।
एकदा कलाकेलिनीम ज्योतिषिको निशि विसृष्टे सेवकलोके १० दुन्दुकराजं विजनं दृष्ट्वाऽवादीत्-देव! वयं भवत्सेवकत्वेन सुखिनः ख्याताः श्रीशाश्च । ततो यथातथं ब्रूमः । अयं ते भोजनामा तनयो भाग्याधिकस्त्वां हत्वा तव राज्ये निवेक्ष्यते । यथार्ह स्वयं कुर्वीथाः । रामा तदवचार्य वज्राहत इव क्षणं मौनी तस्थौ । ज्योतिषिकं विससर्ज । सा वार्ता भोजजननीसहचर्या दास्यैकया विपुलस्तम्भान्त- १५ रितया श्रुता । भोजमात्रे चोक्ता । सा पुत्रमरणाद् बिभाय । राजाऽपि कण्टिकागृहमगात् । साऽपि राजानं सचिन्तमालोक्यालापौत्---देव! अद्य कथं म्लानवदनः । राजाऽऽह स्म- किं क्रियते ! । विधिः कुपितः । पुत्रान्मे मृत्युर्ज्ञानिना दृष्टप्रत्ययशतेन कथितः । कण्टिका वदति स्म- का चिन्ता ? । मारय पुत्रम् । २० सुतमपि मिर्दलयन्ति राज्यलुब्धाः । सुप्तो न सुतः । सुतरूपेण शत्रुरेय सः । तद्वचनाद् दुन्दुकः सुतं जिघांसामास । यावता घातथिष्यति तावता भोजमात्रा पाडलीपुत्रे स्वभ्रातृणां 'शूराणां राज्यश्रीस्वयंवरमण्डपानां स्नेहलानां धर्मज्ञामामग्रे प्रच्छन्नले खेन ज्ञापितम् , यथा- एवमेवं भवतां भागिनेयो विनंक्ष्यति । रुष्टो राजा । आगत्य २५
१ अशोकवृक्षम् । क-'तथ तथं'। ३ क-'दृष्टिप्रत्ययः' । ख-ग-'पारली पुर' । १ ख-'सूराणा' । ६ ख-घ-'भाग्ने यः' । ७ घ--'राजा रुष्टः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org