________________
चतुर्विंशतिप्रबन्धे
९ श्रीबध्यमद्विसूरि
एनं गृहीत्वा गच्छत । रक्षत जीववत् । मा स्माहं भवत्सु सत्सु निष्पुत्रोऽभूषम् इति । तेऽप्यागच्छन्, दुन्दुकमनमन् । उत्सवमषेण 'भागिनेयं भोजं गृहीत्वा " पाडलीपुत्र' मगमन् । तत्र नमपीपठन् । अलीललन् । शास्त्राभ्यासमचीकरन् । जीववदमंसत । तत्र ५ तस्य पञ्चान्दी दिनैः कतिभिरप्यूनाऽतिक्रामति स्म । कण्टिका दुन्दुकाग्रे कथयति स्म - देव ! पुत्ररूपस्ते शत्रुर्मातृशाले वर्धते । नखच्छेद्यं पर्शुच्छेद्यं मा कुरु । अत्रानीय च्छन्नं यमसदनं नथ । राजाऽऽह - सत्यमेतत् । ततो दूतमुखेन दुन्दुको भोजं तन्मातुलपार्श्वेऽयाचीत् । ते भोज नार्पयन्ति । पुनः पुनः स्वान् दूतान् १० दुन्दुकः प्रहिणोति । भोजमातुलाः प्राहु:- राजन् ! वयं तब भावं विद्मः, नार्पयाम एवैनम् । धर्मपात्रमसौ । अन्योऽपि शरणागतो रक्ष्यः क्षत्रियैः, किं पुनरादृक् भगिनीपुत्रः ? । बलात्कारं बषे चेद् युद्धाय प्रगुणीभूयागच्छेः । भगिनीपतये चमत्कारं दर्शयि
:
ष्यामः । तद् दूतैरागत्योक्तम् । दुन्दुकः कुपितोऽपि तान् हन्तुं न १५ क्षमः । भोजोऽपि तैः पितुर्दुष्टत्वं ज्ञापितः कवचहर उपपितृ नैति । ततो दुन्दुकेन बप्पभट्टिसूरयः प्रार्थिताः - यूयं गत्वा भोज सुतमनुनीयानयत मानयत माम् । अनिच्छन्तोऽपि तत्सैनिकैः सह 'पाडली पुत्र' चेलुः । अर्धमार्ग सम्प्राप्तैः स्थित्वा विमष्टं ज्ञानदेशाभोजस्तावन्मम वचसा नृपसमीपं नैष्यति । आनीयते वा यथा २० तथा तदाऽऽनीतोऽपि पित्रा हन्यते । वाग्लङ्घने राजाऽपि क्रुद्धो मां हन्ति । तस्मादितो व्याघ्र इतो दुस्तटी इति न्यायः प्राप्तः । समाप्तं च ममायुः, दिवसद्वयमवशिष्यते, तस्मादनशनं शरणम् । इति विमृश्यासन्नस्थयतयो भाषिताः -- नन्नसूरि- गोविन्दाचार्यौ
--
१ ग - 'रक्षति' । २ ख-घ - भाग्य' । ३ ग घ 'पाटली ० ' । ४ क - ख'अलीलपन् '। ५ ' मोसाळ' इति भाषायाम् । ६ ग - 'तन्मातुलेभ्योऽयाचीत्' । ७ ग'मनुनीयानयततमाम्' । ग 'घ' पाटली० । ९ग - 'दृष्टया' |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org