SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रवन्धः ] प्रबन्धकोशेत्यषयह्वये प्रति हिता भवेत । श्रावकेभ्यो मिथ्या दुष्कृतं ब्रूयात् । परस्परममत्सरतामाद्रियध्वम् । क्रियां पालयेत । 'आबालवृद्धान् लालयेत । नै वयं युष्मदीयाः, न यूयमस्मदीयाः, सम्बन्धाः कृत्रिमाः सर्वे । इति शिक्षयित्वाऽनशनस्थाः समतां प्रपन्नाः । अर्हतस्त्रिजगद्वन्द्यान्, सिद्धान् विध्वस्तबन्धनान् । साधूंश्च जैनधर्म च, प्रपद्ये शरणं त्रिधा ॥१॥' महाव्रतानि पञ्चैव, षष्ठकं रात्रिभोजनम् । विराधितानि यत् तत्र, मिथ्या दुष्कृतमस्तु मे ॥२॥ इति ब्रुवाणा आसीना अदीनाः कालमकार्षुः । श्रीवप्पभट्टिसूरीणां श्रीविक्रमादित्यादष्टशतवर्षेषु गतेषु भाद्रपदे शुक्लतृतीयायां रवि- १० दिने हस्तार्के जन्म, पश्चनवत्यधिकेषु गतेषु वर्गारोहणम् । तदैव 'मोढ़ेरे' नबसूरीणामने भारत्योक्तम्----भवद्गुरव 'ईशान'देवलोकं गताः । तत्र बाद शोकः प्रससार । शास्त्रज्ञाः सुवचस्विनो बहुजनस्याधारतामागताः सवृत्ताः स्वपरोपकारनिरता दाक्षिण्यरत्नाकराः । सर्वस्याभिमता गुणैः परिवृता भूमण्डनाः सजना धातः! किं न कृतास्त्वया गतधिया कल्पान्तदीर्घायुषः॥१॥ वृद्धस्तु प्रबोधो दत्तः हित्वा जीर्णमयं देहं, लभते भो पुनर्नवम् । कृतपुण्यस्य मर्त्यस्य, मृत्युरेव रसायनम् ॥२॥ २० इति । दुन्दुकेन सूरिभिः सह प्रहिता ये सैनिकास्ते निनृत्य दुन्दुकपार्श्व गताः । सोऽपि पश्चात्तापानलेन दन्दह्यते स्म । भोजेनाऽपि समातुलेन सूरिशिष्याणामन्येषामपि लोकानां मुखादवगतम्, यथा- सूरय एवं मम्रः, तव पार्थ नाजग्मुः ।मा स्माय १ ख-'प्रतिहता भवेत् (१) । २ क-'बालवृद्धान्' । ३ क-'नो' । ४-५ अनुष्टुप् ६ पञ्चत्वं प्राप्ताः । ७ ख-'हस्ताः । ८ हे ब्रह्मन् !। ९ शार्दूल० । १० ख-ग'कृत्यपुण्य.' ११ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy