________________
चतुर्विशतिप्रबन्धे [ ९ श्रीनप्पभष्टिसूरिमस्मदुपरोधसङ्कटे पस्तिः पितुः पार्श्व गतः सन् नियंत इति कृपा दध्रुः । तदेतदाकर्ण्य भोजस्तथा पीडितो यथा वज्रपातेनापि न पीड्यते । पितुरन्तिकं नागादसौ।
एकदा मालिकः कोऽपि पूर्वमामराजभृत्यो विदेशं 'भ्रमित्वा भोजान्तिकमागतः 'पाटलीपुरे' । तेनोक्तम्- देव ! त्वं मत्स्वामिकुलदीपः । मया विदेशे सद्गुरोर्मुखाद् विधैका लब्धा 'मातुलिङ्गी' नाम ययाऽभिमन्त्रितेन मातुलिङ्गेन हताः 'करि-हरिप्राया अपि बलिनो म्रियन्ते, मानवानां तु का कथा ? । देव! गृहाण ताम् । भोजेन सा तस्मादात्ता । प्रमाणिता । सल्या । मालिको दान-मानाभ्यां भोजेन रञ्जितः । मातुलाः सर्वे भोजेन विद्याशक्ति प्रकाश्य तोषिताः । ते ऊचुः- यदीयं ते शक्तिस्तदा प्राभृतमिषेण मातुलिङ्गानि गृहीत्वाऽस्माभिः सह पितुः समीपं व्रज । पितरं निपाल राज्यं गृहाण । तद् रुरुचे भोजाय । चलितो
बहुमातुलिङ्गशोभी सन् गतः पितुरं कथापितं च--- तात! त्वं १५ पूज्योऽहं शिशुः ; स्वत्तो मरणं वा राज्यं वा सर्व रम्यं मे । राजा
सन्तुष्ट:-अहो विनीतसुतः । आयातु। इति विमृश्य आहूतो भोजः। शोधितो मध्यमागतः । एकासनस्थौ कण्टिका-राजानी पृथक् पृथग् मातुलिङ्गेन जघान । सम्यग्विद्या हि नान्यथा । उपविष्टो
दुन्दुकराज्ये भोजः । तन्मातुला अतुलं तोषं दधुः । माता पद्मा २० प्रससाद । दुन्दुकेन धनहरण-ग्रासोद्दालनादिदूनचरा 'राज
न्यकाः पुनर्जातमात्मानं मेनिरे । महाजनो जिजीव । वर्णाः सबै उन्मेदुः । संसारसरोऽम्भोज भोज कमला भेजे । दोर्बलात् परिच्छदबलाच्च जगजिगाय । अथ कृतज्ञतया 'मोढेर'पुरे नन्नसूरये विज्ञप्तिं दत्त्वा उत्तमनरान् प्रैषीत् । ते गतास्तत्र । विज्ञप्तिर्दर्शिता
१ घ--'मृतेति' । २ 'माळी' इति भाषायाम् । ३ ग-'भ्रान्त्वा'। ४ ग-'प्रदीपः'। ५ 'कुअर-सिंह०', ६ ख-'कण्टीराजा ० । ७ घ- 'धनहरणेन प्रासे०ि' । ८ घ-- 'राजकन्यकाः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org