________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये
तैस्तत्र । वाचिता नन्नसूरि-गोविन्दाचार्यधा-- 'स्वस्ति श्री'मोढेरे' परमगुरुश्रीनन्नसूरि-श्रीगोविन्दसूरिपादान् सगच्छान् 'गोपगिरि'दुर्गात् श्रीभोजः परमजैनो विज्ञपयति यथा- इह तावत् प्रज्ञागङ्गाहिमाद्रयः समाचारीनासिौभाग्यवर्धनमकरध्वजाः क्षितिपतिसदःकुमुदिनश्वेितदीधितयो भारतीधर्मपुत्राः श्रीवप्पभडि- ५ सूरयस्त्रिदिवलोकलोचनलेह्यललितपुण्यलावण्यतामादधिरे । तस्थाने सम्प्रति दीर्घायुषो यूयं स्थः । 'दृष्टविज्ञप्तिकाप्रमाणेनात्र पादोऽयधार्यः' । तद् दृष्ट्वा भक्तिरहस्यं सूरयः ससचाः सुतरां जहषुः । सधानुमत्या गोविन्दाचार्य 'मोढेरके' मुक्त्वा श्रीनन्नसूरयो 'गोपगिरि'मसरन् । भोजः पादचारेण ससैन्यः सम्मुखमायातः । गुरोः १. पादोदकं पपौ । उल्लसत्तष्णो गिरं शुश्राव । स्थानस्थानमिलितजनहृदयसङ्घचूंरितहारमौक्तिकधवलितराजपथं पुरं निनाय । सिंहासने निवेशयामास तान् । मङ्गलं चकार । तदाऽऽज्ञामयो बभूव । तद्भक्तानात्मवद् ददर्श । तदभक्तान् विषवदीक्षाश्चक्रे । तदुपदेशाजिनमण्डितां मेदिनीं विदधौ । दुन्दुकस्य ताहम् मरणं १५ स्मृत्वा कुपथेषु न रेमे । 'मथुरा'-'शत्रुञ्जया' दिषु यात्रां चकार । एकादश व्रतानुच्चचार । पूर्वराजर्षियशांसि उद्दधार । चिरं राज्यं भेजे । इत्येवं गोपगिरौ' भोजो धर्म लालयामास उदियाय च । अन्यैरपि पुण्यपुरुषैरेवं भाव्यम् ॥
॥ इति 'श्रीबष्पभविचरित्रम् । ग्रन्थानं ६००॥
-
१ ग-हेमा० । १ क- दृष्टविज्ञप्तिप्रमाणेन' । ३ ख-हरितहार.'। ४ घ'यापाथकार' । ५ घ-भट्टिसूरिचरित्रप्रबन्धः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org