________________
[१० श्रीहेमचन्द्रसूरि
चतुर्विंशतिप्रबन्धे
[१०] ॥ अथ हेमसूरिप्रबन्धः ॥
' पूर्णतल्ल गच्छे श्रीदत्तसूरिः प्राज्ञः 'वागड'देशे 'वटपद्र' पुरं गतः । तत्र स्वामी यशोभद्रनामा राणक ऋद्धिमान् । तत्सौधान्तिके उपाश्रयः श्राद्धैर्दत्तः । रात्रौ उन्मुद्रचन्द्रातपायां राणकेन ऋषयो दृष्टा उपाश्रये निषष्णाः । श्रावकामात्यपार्श्वे पृष्टम्के एते । अमात्यः प्रोचे- देव! महामुनयोऽमी विषमव्रतधारिणः । राणकस्य श्रद्धा बभूव । प्रातर् वन्दितुं गतः ।
देशना । श्रावकत्वं सुष्टु सम्पन्नम् । मासकल्पमेकं स्थिताः । १० परदेशं गता गुरवः । तावता वर्षाकालः । देवपूजादिधर्मव्यापार
साराण्यहानि गमयति राणः । प्राप्ता शरद् । चरिक्षेत्राणि द्रष्टुं गतो राणः । तावता बुण्टानि ज्वालयन्ति भृत्याः । तेषु सर्पिण्येका गर्भभारालसा ज्वालादिभिर्दह्यमाना तडफडायमाना सिमिसिमाय
माना राणेण दृष्टा । दयोत्पन्ना । विरक्तश्च । हा हा संसारं, धिग् १५ गृहवास, कस्य कृते पापमिदमाचर्यते । राज्यमपि दुष्पालं
मायाजालं नरकफलम् । तस्मात् सर्पसङ्गपरित्यागः कार्यः । इति ध्यायन् सौधमायासीत् । निशि श्रावकमन्त्रिणमाकार्य रहोऽपाक्षीत् मम धर्मगुरवः श्रीदत्तसूरयः क्व विहरन्ति ! । मन्त्र्याह'डिण्डुआणके' । विसृष्टो मन्त्री शेषपरिच्छदश्च । राणको मिताश्वपरिवारः सारं हारमेकं सह गृहीत्वा शीघ्रं - डिण्डुआणकं ' प्राप्तः । गुरवो दृष्टा वन्दिताः । भववैराग्याद् रुदितः । पदोलगित्वा कथितं स्वपापम् । गुरुभिर्भणितम् --- राणक ! चारित्रं विना न छुटन्ति पापेभ्यो जीवाः । राणकेन न्यगादि- सद्यो दीयतां तर्हि तत् । सूरय ओमित्याहुः स्म । राणकेन ' डिंडुआणकीय१ चन्द्रप्रभायाम् । २ ख-चरणक्षेत्रा० । ३ पशुक्षेत्राणि । ४ अर्धपक्कधान्यकणान् इति प्रतिभाति । ५ 'तडफडती' इति भाषायाम् । ६ 'छूटे छ' इति भाषायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org