________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये श्रावकाः समाकारिताः, हारोऽर्पितः । दिव्यः प्रासादः कार्यतामिति । तथाऽऽचरितं तैः । अद्यापि दृश्यते स तत्र । राणकैर्बतमत्तम् । नन्द्यामेव षड्विकृतिनियमः, एकान्तरोपवासा यावज्जीवम् । तस्य राणयशोभद्रस्य गीतार्थत्वात् सूरिपदं जातम् । श्रीयशोभद्रसूरिरिति नाम । तदीयपट्टे प्रद्युम्नसूरिर्ग्रन्थकारः । ५ तत्पट्टे श्रीगुणसेनसूरिः । श्रीयशोभद्रसूरिपादास्त्रयोपवासा 'रैवते' नेमिनाथदृष्टौ कृतानशनाः खर्लोकमैयरुः । गुणसेनसूरिपट्टे श्रीदेवचन्द्रसूरयः ठाणांगवृत्ति-शान्तिनाथचरितादिमहाशास्त्रकरणनियूंढप्रज्ञाप्रागभाराः । ते विहरन्तो 'धन्धुक्क पुरं 'गूर्जर'धरा'सुराष्ट्रा'सन्धिस्थं गताः । तत्र देशनाविस्तरः । १० ___ एकदा नेमिनागनामा श्रावकः समुत्थाय श्रीदेवचन्द्रसूरीन् जगौ-- भगवन् ! अयं 'मोढ'ज्ञातीयो मद् भगिनीपाहिणिकुक्षिभूः ठक्कुरचाचिगनन्दनश्च(श्चा)ङ्गदेवनामा भगवतां देशनां श्रुत्वा प्रबुद्धो दक्षिां याचते । अस्मिश्च गर्भस्थे मम भगिन्या सहकारतरुः स्वप्ने दृष्टः। स च स्थानान्तरे उप्तस्तत्र महती १५ फलस्फातिमायाति स्म । गुरव आहुः-स्थानान्तरगतस्यास्य बालस्य महिमा प्रैधिष्यते । महत् पात्रमसौ योग्यः सुलक्षणो दीक्षणीयः, केवलं पित्रोरनुज्ञा ग्राह्या । गतौ मातुल-भागिनेयौ पाहिणि-चाचिगान्तिकम् । उक्ता व्रतवासना । कृतस्ताभ्यां प्रतिषेधः करुणवचनशतैः । चाङ्गदेवो दीक्षां ललौ । स हेमसूरिः प्रभुः । तेन १५ यथा श्रीसिद्धराजो रञ्जितः, व्याकरणं कृतम्, वादिनो जितास्तथा च कुमारपालेन सह प्रतिपन्नम् । कुमारपालोऽपि यथा पञ्चाशद्वर्षदेशीयो राज्ये निषण्णः । यथा श्रीहेमसूरयो गुरुत्वेन प्रतिपन्नाः । तैरपि यथा देवबोधिः प्रतिपक्षः पराकृतः । राजा सम्यक्त्वं ग्राहितः श्रावकः कृतः। निर्वीराधनं (१) च मुमोच सः । तत् २०
१ क-घ-'मादत्तम्' । २ जैनानां तृतीयमङ्गम् । ३ क-'धुन्धुक', ख-धुन्धूक.'। "घ-'मातुल[]भामेयौ। मातर्विशति १.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org