________________
चतुर्विंशतिप्रबन्धे [९ श्रीहेमचन्द्रसूरिप्रबन्धचिन्तामणितो ज्ञेयम् । किं चर्वितचर्वणेन ? । नवीनास्तु केचन प्रबन्धाः प्रकाश्यन्ते-- __ कुमारपालेन अमारौ प्रारब्धायां आश्विनशु(सु)दिपक्षः समा
गात् । देवतानां कण्टेश्वरी-प्रमुखाणां अबोटिकैर्नृपो विज्ञप्तः५ देव ! सप्तम्यां सप्त शतानि पशवः सप्त महिषाः, अष्टम्यां अष्ट महिषा
अष्टौ शतानि पशवः, नवम्यां तु नव शतानि पशवो नव महिषा देवीभ्यो राज्ञा देया भवन्ति पूर्वपुरुषक्रमात् । राजा तदाकर्ण्य श्रीहेमान्तिकमगमत् । कथिता सा वार्ता । श्रीप्रभुभिः कर्णे एवमेव
मित्युक्तम् । राजोत्थितः । भाषितास्ते--देयं दास्यामः । इत्युक्त्वा १० बहिका(१)क्रमेण रात्रौ देवीसदने क्षिप्ताः पशवः । तालकानि दृढी
कृतानि । उपवेशितास्तेषु प्रभूता आप्तराजपुत्राः । प्रातरायातो नृपेन्द्रः। उद्घाटितानि देवीसदनद्वाराणि । मध्ये दृष्टाः पशवो रोमन्थायमाना निर्वातशय्यासुस्थाः । भूपालो जगाद-~- भो अबोटिकाः !
एते पशवो मयाऽमभ्यो दत्ताः । यद्यमूभ्यो रोचिष्यन्ते, ते तदा प्रसि१५ ष्यन्ते, परं न प्रस्ताः; तस्मान्नामूभ्योऽदः पललं रुचितम् । भवद्भ्य
एव रुचितम् । तस्मात् तूष्णीमाध्वम् । नाहं जीवान् घातयामि । स्थितास्ते विलक्षाः । मुक्ताश्छागाः । छागमल्यसमेन तु धनेन देवेभ्यो नैवेद्यानि दापितानि । अथाश्विनशुक्लदशम्यां कृतोपवासः
क्ष्मापो निशि चन्द्रशालायां ध्याने उपविष्टो जपति । बहिस्थाः २० सन्ति । गता बह्री निशा । स्त्र्येका दिव्या प्रत्यक्षाऽऽसीत् ।
उक्तस्तया सः- राजन् ! अहं तव कुलदेवी कण्टेश्वरी । 'ऐषमः किमिति त्वया नास्मद्देयं दत्तम् ? । राज्ञोक्तम्-- जैनीऽहं दयालुः पिपीलिकामपि न हन्मि, का कथा पञ्चेन्द्रियाणाम् ।
तच्छ्रुत्वा कण्टेश्वरी क्रुद्रा, राजेन्द्र त्रिशूलेन शिरसि हत्व, २५ जग्मुषी । राजा कुष्टी जातः । दृष्टं खवपुर्विनष्टम् । विषण्णः ।
१ ख-कोटेश्वरी-'। २ सेवकैः (१)। ३ उद्गीर्णस्य वाऽवगीर्णस्य रोमं कुर्वन्तः । • मासम् । ५ अस्मिन् वर्तमाने वर्षे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org