________________
चतुर्विंशतिप्रबन्धे [ ९ श्रीबप्पभट्टिसूरिविश्वप्रायः सकलसुरभिर्द्रव्यदर्पापहारी ___ नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥२॥ सूरिभिश्चिन्तितम्-अहो महप्तामपि कीदृग् मतिविपर्यासः ।। भस्त्रा काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी
सा संस्कारशतैः क्षणार्धमधुरां बाह्यामुपैति द्युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां नु कान्ताधिया
श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ? ॥३॥ उत्थिता सभा । त्रिभिर्दिनै पैन पूर्बहिः सौधं कारितम् , मातङ्गीसहितोऽत्र वत्स्यामीति धिया । तदवगतं श्रीबप्पभट्टिसूरिभिः । १० ध्यानप्रत्यक्षं हि तेषां जगवृत्तम् । ततो माऽसौ नरकं यासीदिति
कृपया तैर्निष्पाद्यमानसौधभारपट्टे निशि खटिकया बोधदानि पद्यानि लिखितानि । यथाशैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भजन्त्यशुचयस्त्वत्सङ्गतोऽन्ये यतः । 'किश्चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः! कस्त्वां निरोद्धं क्षमः ? ॥१॥ सद्वृत्तसद्गुणमहार्हमहार्घकान्त. कान्ताघनस्तनतटोचितचारुमूर्ते ! । आः पामरीकठिनकण्ठविलग्नभग्न ! हा हार ! हारितमहो भवता गुणित्वम् ॥२॥ 'जीयं जलबिंदुसमं, संपत्तीओ तरंगलोलाओ। मुमिणयसमं च पिम्मं, जं जाणसि तं करिज्जासि ॥३॥
२०
१- कायाम् । २ स्रग्धरा। ३ शार्दूल। घ-कारापितम् । ५ क-'नरकमया.'। ६ ग-'किंवाऽतः' । ७ शार्दूल । ८ वसन्त । ९ काया-जीवितं जलबिन्दुसमं सम्पत्तयस्तरङ्गलोलाः ।
स्वमसमं च प्रेम यज्जानासि तत् कुर्याः । १. आर्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org