________________
प्रबन्धः]
प्रबन्धकोशेत्यपराह्वये लज्जिज्जइ जेण जणे, मइलिज्जइ निअकुलक्कमो जेण । कंठहिए वि जीए, तं न कुलीणेहिं कायव्वं ॥४॥
प्रातरमूनि पद्यानि स्वयमामो ददर्श । वर्णान् कवित्वगति च उपलक्षयामास । अहो गुरूणां मयि कृपा! । अहोतमां मम पापाभिमुखता इति ललज्जे । दध्यौ च-साङ्कल्पिकमिदं जैनङ्गमीसङ्ग- ५ मपापं मयाऽऽचरितम् । भारितोऽहं क यामि ? किं करोमि ? कथं गुरोर्मुखं दर्शयामि ? किं तपः समाचरामि ? किं तीर्थ सेवे ? । ऊर्ध्व मुखं गृहीत्वा गच्छामि ? । कूपे पतामि ? । शस्त्रेणात्मानं घातयामि ? । अथवा ज्ञातम्-सर्वजनसमक्षं पापमुद्गीर्य काष्ठानि भक्षयामि । एवं रेलवलायमानोऽनुचरानादिदेश- अग्निं प्रगुणयत । प्रगुणितस्तै- १० रग्निः । समागताः श्रीवप्पभट्टिसूरयः । मेलितं चातुर्वर्ण्यम् । उक्तं तदघम् । यावत् सेहसा कृशानुं प्रवेक्ष्यीत आमस्तावत् सूरिभिर्बाही धृत्वोक्तः राजन्! शुद्धोऽसि । मा स्म खिद्यथाः । त्वया हि सङ्कल्पमात्रेण तत् पापं कृतं, न साक्षात् ; सङ्कल्पेनाग्निमपि प्रविष्टोऽसि । चिरं धर्म कुरु।
मनसा मानसं कर्म, वचसा वाचिकं तथा ।
कायेन कायिकं कर्म निस्तरन्ति मनीषिणः ॥१॥" इति वचनाद् विसृष्टोऽग्निः । जीवितो राजा । तुष्टो लोकः । प्रीतः सूरिः। __ समयान्तरे वापतिराजो 'मथुरां' ययौ । तत्र श्रीपादस्त्रि- २० दण्डी जज्ञे सः । तल्लोकादवगम्य आमः सूरीन् बभाषे- भवद्भिरहमपि श्रावकः कृतः । दिव्या वाणी वः प्रसन्नैव । जानामि वः शक्तिपरमरेखां यदि वापतिमप्यास्तदीक्षां ग्राहयथ । आचार्येन्द्रैः
१ छाया-लज्ज्यते येन जने मलिनीक्रियते निजकुलक्रमो येन ।।
कण्ठस्थितेऽपि जीवे तत् न कुलीनैः कर्तव्यम् ॥ २ आर्या । ३ चाण्डाली | Y 'टळवळतो' इति भाषायाम् । ५ ग--'सहसाऽमि' । ६ अमिम् । ७ अनुष्टुप् । ८ ग-'आचार्यः । चतुर्विंशति ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org