________________
प्रबन्धः] प्रबन्धकोशेत्यपराह्वये प्रघाहश्यामदीर्घानसानाकृष्योत्थिता हत हत इति भाषन्ते स्म । अत्रान्तरे ननसूरि-गोविन्दाचार्यो स्वरूपमुद्रे प्रकाश्याहतुःराजन् ! राजन्! भटा! भटाः ! शृणुत शृणुत कथायुधमिदम् , न तु साक्षात् । अलं सम्भ्रमेण । इत्युक्त्वा लज्जिता विस्मिताश्च ते राजाधाः संवृस्याकारमस्थुः । तदा गोविन्दाचार्य-नन्नसूरिभ्यां भूपोऽमाणि- ५ किल शृङ्गारानुभावनो वयमिति तं सम्यग् व्याख्यातुं विद्मः, किमु समराजिरमपि भवद्वत्प्रविष्टाः स्मः ? कुरङ्गा इव शस्त्रे दृष्टेऽपि बिभिमः। आबाल्याद् गृहीतव्रताः पापभीरवः स्मः, परं भारतीप्रभावप्रभववचनशक्त्या रसान् सर्वान् जीवद्रूपानिव दर्शयामः । राजन् ! 'मोढेरके' यैस्ते वात्स्यायनभावा व्याख्यातास्ते वयं ननसूरय १० इमे च गोविन्दाचार्याः । भवतां तदा मृषा विकल्पः समजनि । राजा सद्यो ललज्जे । तौ सूरी क्षमयामास आन→ बप्पट्टिं च । तौ कतिचिद् दिनानि उपराज स्थित्वा बप्पभट्टेरनुज्ञया पुन मोढेर'पुरमगाताम् । गतः समयः कियानपि ।
अन्यदा गाथकवृन्दमागतम् । तन्मध्ये बालिका तेमालनौलो- १५ त्पललोचना मृगाङ्कमुखी किन्नरस्वरा विदुषी गायति । तां दृष्ट्वा मदनशरज्वरजर्जरो गलितविवेको गतप्रायशौचधर्माभिनिवेश: 'कन्यकुब्जे'शः पद्यद्वयं प्रभुप्रत्यक्षमपाठीत्वक्त्रं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः .
कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः। २० वाणी कामदुघा कटाक्षलहरी सा कालकूटच्छटा __ तत् किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥१॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो ___ दूरे शोभा वपुषि निहिप्ता पङ्कशङ्कां तनोति ।
१ घ-'हनहनेति'। २ ग-.'कचायुद्धमिदं'। ३ क-'प्रतिष्ठाः'। ४ क-ख'निन्छा' । ५ ख-घ-'सनालनीलो०' । ६ ग-'मदनज्वरः'। ७ शार्दूल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org