________________
चतुर्विंशतिप्रबन्धे
[९ श्रीबप्पमट्टिसूरि
तदा नबसूरिारख्यानेऽवसरायातान् वात्स्यायनोक्तान् कामाङ्गभावान् पल्लवयन्नासीत् । राज्ञा श्रुतं तत् सर्वम् । अरुचिरुत्पन्ना । अहो वयं कामिनोऽपि नैतान् भावान् विद्मः; अयं तु वेत्ति सम्यक्; तस्मादवश्यं नित्यं योषित्सङ्गी, किमस्य प्रणामेन ? । इत्यकृतनतिरेवोत्थायाशु 'गोपगिरि मागात् । चिराद् वृष्टः क्षमाप इति रणरणकाक्रान्तस्वान्ताः प्रभवो वन्दापयितुमैयरुः । राजा निरादरो न वन्दते तथा । एवं दिनानि कतिपयानि गतानि ।
एकदा गुरुभिः पप्रच्छे- राजन्! यथा पुरा भक्तोऽभूस्तवेदानीं भक्तो नासि । किमस्माकं दोषः कोपि ? । राजा स्माह-सूरिवर ! १० भवादृशा अपि कुपात्रश्लाघां कुर्वते, किमुच्यते ? । सूरिभिरूच
कथम् ? । आमः प्राह-यौ भवद्भिः त्वौ गुरुबान्धवौ स्तुतौ तत्र गत्या एको नन्नसूरिनामा दृष्टः शृङ्गारकथाव्याख्यानलम्पटस्तपोहीनो लोहतरण्डतुल्यो मज्जति मज्जयति च भवाम्बुधौ । तस्मान्न
किश्चिदेतत् । सूरयो मसिमालनवदनाः स्ववसतिमगुः । तत्रोप१५ विश्य द्वौ साधू 'मोढेरक पुरं प्रहितौ । तत्पार्थात् तत्र कथापितम्
आमोऽकृतप्रणामो भवत्पाऱ्यांदागतः । एघमेवं युवां निन्दति । तत् कर्तव्यं येनासौ भवत्स्यन्येष्वपि श्रमणेषु अवज्ञावान् न भवति । सर्व तत्रत्यं ज्ञात्वा तौ द्वावपि गुटिकया वर्णस्वरपरावर्त कृत्वा
नटवेषधरौ 'गोपगिरि'मीयतुः । श्रीवृषभध्वजचरित्रं नाटकत्वेन २० बबन्धतुः । नटान् शिक्षयामासतुः । आमराजमवसरं यया चतुः ।
राज्ञाऽवसरो दत्तः । मिलिताः सामाजिकाः तत्तद्रसभावज्ञाः । ताभ्यां नाटकं दर्शयितुमारेभे । भरत-बाहुबलिसमरावसरोऽभिनीयते । यदा व्यूहरचना-शस्त्ररणरणत्कारवौरवर्णना-भट्टकोला
हलाश्चोत्थापनघर्धरिका-झणझणत्कारादि ताभ्यां वर्णयितुमारब्धम्, २५ धारारूढश्च रसोऽवातारीत् तदा श्रीआमस्तद्भटाश्च 'कालिन्दी'
१ ख-ख्यानावसरा०' । २ क-'पप्रच्छते'। ३ ख--'सूरिरूचे'। 7 घ-'भवेत्' । ५ इदं नाटकं न दृष्टं मया। ६ ग-शस्त्रझलत्कार' । . ख-'हलात्थापन' । ८ ग-ऋणऋणकारादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org