________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये एकदा 'लक्षणावत्यां' बौद्धो वर्धनकुञ्जरो धर्मनृपमाह सगद्गदम्- अहं बप्पभट्टिना जितस्तन्मे न दूषणम् । बप्पभाट्टिर्हि भारती नररूपा, प्रज्ञामयः पिण्डः, गीष्पुत्रः , न च दुनोति । एतत् तु दुनोति यत् तव भृत्येनापि वाक्पतिराजेन सूरिकृतभेदान्मम मुखशौचोपायेन गुटी हारयामहे । एतावदभिधाय स तारं तारं रु।द । स निवारितः क्ष्मापेन रोदनात् । उक्तश्च-किं क्रियते ! । अयं नश्चिरसेवकोऽनेकसमराङ्गणलब्धजयप्रतिष्ठः प्रबन्धकविः पराभवितुं न रोचते । क्षमस्वेदमस्यागः । ततो बौद्धो जोषं स्थितः । अपरेधुर्यशोधर्मनाम्ना समीपदेशस्थेन बलवता भूपेन 'लक्षणायनी' मेत्य रणे धर्मनृपो व्यापादितः । १० राज्यं जगृहे । वापतिरपि बन्दीकृतः। तेन कारास्थेन 'गौडध'सञ्ज्ञकं प्राकृतं महाकाव्यं रचयित्वा यशोधर्माय राजेन्द्राय दर्शितम् । तेन गुणविशेषविदा ससत्कारं बन्देर्मुक्तः क्षमितश्च । "विद्वान् सर्वत्र पूज्यते” । ततो वापतिर्बप्पभट्टेः समीपं गतः । द्वयोस्तयोमैत्री पूर्वमप्यासीत् , तदानी विशेषतौऽवृधत् । १५ तेन वाक्पतिना 'महामहविजयाख्यं प्राकृतं महाकाव्यं बद्धम् । आमाय दर्शितम् । आमो हेमटङ्ककलक्ष्यमस्मै व्यशिश्रणत् ।
कियती पञ्च सहस्री, कियती लक्ष्या च कोटिरपि ? ।
औदार्यान्नतमनसा, रत्नवती वसुमती कियती ? ॥ १॥ अपरेयुः प्रभुः श्रीआमेन पृष्टः- भगवन् ! यूयं तावत् तपसा २० विद्यया च लोके लब्धपरमरेखाः । किमन्यः कोऽपि क्वाप्यस्ते यो भवत्तुलालेशमवाप्नौति ? । बरभाट्टिरमाणीत्-अवनिपते! मम गुरुवान्धवौ गोविन्दाचार्य-नन्नसूरी सर्वैर्गुणैर्मदधिको 'गूर्जर'धरायां 'मोढेरक' पुरे स्तः । गुणोत्कण्ठयाऽमितसैन्य आमस्तत्र गतः ।
न चेदं मे दृष्टि
१ ख.-'इतरेछु.' । २ ग.- राजे' । ३ घ-'महमहर्वि' । पथमागतम् । ५ आर्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org