________________
चतुर्विंशतिप्रबन्धे [९ श्रीबप्पभटिसूरिदत्तम् । धर्मेण सप्ताङ्गं राज्यं आमाय दत्तम् । लाहीदम् । धर्माद्धि राज्यं लभ्यते । काऽत्र चर्चा ? । आमेन गृहीतम् । तदा सूरिणा आमः प्रोक्तः--राजन्! पुना राज्यं धर्माय देहि । महादानमिदम् । शोभते च ते । राजस्थापनाचार्याश्च पारम्पर्येण यूयम् । पूर्व श्रीरामेण वनस्थेनापि सुग्रीव-विभीषणौ राजीकृतौ । त्वमप्येवं युगीननृपेषु तत्तुल्यः । एतद्वचनसमकालमेव आमेन गाम्भीयौदार्यधाम्ना धर्माय तद्राज्यं प्रत्यर्प्य स धर्मः परिधापितः। स्वे मत्ताः करिणः शतं, सहस्रं तुङ्गास्तु रङ्गाः, सहस्रं सवरूथा
स्थाः, शतं वादित्राणि प्रादायिषत । स्वं स्वं स्थानं गताः सर्वे । १० सरि-भूपौ यशोधवलितसप्तभुवनौ 'गोपगिरौ' श्रीमहावीरमवन्दिषा
ताम् । तदा सूरिकृतं श्रीवीरस्य स्तवनम्- "शान्तो वेषः शमसुखफला" इत्यादि काव्यैकादशकमयमद्यापि सके पठ्यते । सङ्घन प्रभुर्ववन्दे । तुष्टुवे च
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । । १५ न तमांसि न तेजांसि, यस्मिन्नभ्युदिते सति ॥ १॥
अन्यदा स्वपरसमयसूक्तैः प्रबोध्य राजा प्रभुभिर्मद्यमांसादिसप्तव्यसननियम कारितः । सम्यक्त्वमूलैकादशव्रतनिरतश्च श्रावकः कृतः । द्वादशं व्रतं त्वतिथिसंविभागरूपं प्रथमचरमजिननृपाणां निषिद्धं सिद्धान्ते।
१ग-- 'तुल्यः'। २ क-'प्रत्यापि'। ३ घ-वधाः'। ४ घ-"नभ्युदये सति' । ५ अनुष्टुप् ।
६" द्यूतं मांसं सुरा वेश्या, पापद्धिश्चौरिका तथा ।
परस्त्रीगमनं चेति, सप्तैव व्यसनानि हि ॥४॥" इति श्रीसोमप्रभसूरिसूत्रिते सप्तव्यसनकथासमुच्चये।
क-'प्राहितः' । ८ स्थूलप्रागातिपातविस्मण-स्थूल-मृषावादविरमण-स्थूलादत्तादानविरमण-परबारगममविरमण-स्थूलपरिग्रहविरमण-दिग्वत-भोगोपभोगविरमणाअनर्थदण्डविरमण-सामायिक-देशावकाशिक-पौषधेवितैकादशकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org