________________
प्रबन्धः]
प्रबन्धकोशेत्यपराह्वये कुर्वतस्तस्य बदनाद् गुटिका ममेच्छया पतिष्यति तदा त्वया जेष्यते, एकं तु याचे--मत्स्तुतेश्चतुर्दशकाव्यं कस्याप्यने न प्रकाश्यम् । तत्पठने हि मया ध्रुवं ध्रुवं प्रत्यक्षया भाव्यम् । कियतां प्रत्यक्षा भवामि ? । क्लेशेनालम् । एवमुक्त्वा देवी विद्युज्झाकारलीलयाऽन्तर्दधे । सारीभिर्निशि परमाप्तः शिष्य एको वाक्- ५ पतिराजसमीपं प्रहित्याख्यापितम्, यथा सूरयो वदन्ति--राजन् ! त्वं विद्यानिधिरस्माकं 'लक्षणावती'पुरीपरिचितचरः । तदाऽवादी:-भगवन् ! निरीहा भवन्तः, कां भवद्भ्यो भक्ति दर्शयामि ? ।' तदा वयमवोचाम--अवसरे कामपि भक्तिं कारयिष्यामः । भवद्भिर्भणितम्-तथाऽस्तु । इदानीं सोऽवसरोऽत्र १० समायातः । वाक्पतिना शिष्यः पृष्टः-- सूरयः किं मे समादिशन्ति ? आदिष्टं कुर्वे ध्रुवम् । शिष्यो न्यवेदयत्-राजन् ! गुरव आदिशन्ति--प्रातर्धा-ऽऽमयोः सदःस्थयोः सतोस्त्वया वाच्यं यथा वदनशौचं विना भारती न प्रसीदति । तस्माद् वादिप्रतिवादिसभ्यसभेशाः सर्वे शौचं कुर्वन्तु । एतावति कृते १५ भवता नः सर्वः स्नेहः कृत एव । वाक्पतिना तदङ्गीकृतम् । शिष्येणोपगुरु गत्वा तत् तत्प्रतिज्ञातं कथितम् । तुष्टा गुरवः । प्रत्यूषे उदयति भगवति गभस्तिमालिनि लाक्षालिप्त इघ प्राचीमुखे राजानौ सभायामागाताम् । वाक्पतिना वदनशौचं सर्वे कारिताः, बौद्भवादीन्द्रोऽपि । तस्य वदनकमलाद् विगलिता गुटिका पतद्- २० ग्रहे । बप्पभट्टिशिष्यैः पतद्ग्रहो जनैर्दूरे कारापितः । गुटिका सूरीन्द्रसाज्जाता । बौद्धो गुटिकाहीनः सूरिणा पार्थेन कर्ण इव दिव्यशक्तिमुक्तो निःशङ्क वाक्पृषत्कैर्हतः । निरुत्तरीकृतः राहुग्रस्तश्चन्द्र इव हिमानीविलुप्तस्तरुखण्ड इव बाढं निस्तेजतां भेजे । तदा श्रीबप्पभट्टनिर्विवाद 'वादिकुञ्जरकेसरी'ति बिरुदं स्वैः परैश्च २५
३ ख-कारापयिष्यामः' ।
१ ग-'ध्रुवं प्रत्यक्ष.'। २ ख-'रस्मान्' । ४ क-'आदिशन्तु' । ५ घ--'सभ्येशाः' । ६ सूर्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org