________________
चतुर्विंशतिप्रबन्धे
[९] श्रीबप्पमट्टिसूरि
णोक्तम् । यदि तव प्रभुः सप्ताङ्ग राज्यं वादे जिते समर्पयिष्यति ? । मै इति सत्यं तदा वयं वादिनमादायार्गच्छामः । दूतेनोक्तम्कारणवशाद् युधिष्ठिरेणापि 'द्रोण' पर्वण्यसत्यं भाषितम् ; मत्प्रभुस्तु कारणेऽपि न मिथ्या भाषते । आमेन दूतः प्रैषि । उक्तदिनोपारचं बप्पभट्टि गृहीत्वाऽर्द्धपथे उक्तस्थाने आमोऽगमत् । धर्मभूपतिरपि वर्धन कुञ्जरं वादीन्द्रमादाय तंत्राजगाम । 'परमार'वंश्यं नरेन्द्रं महाकविं वाक्पतिनामानं स्वसेवकं सहादाय समाययौ । उचितप्रदेशे आवासान् दापयामास । तौ वादि-प्रतिवादिनौ पक्षप्रतिपक्षपरिग्रहेण वादमारेभेते । सभ्याः कौतुकाक्षिप्ताः १० पश्यन्ति । द्वावप्यसामान्यप्रतिभौ । वादे षण्मासा गताः । द्वयोः कोऽपि न हारयति, न जयति । आमेन सूरयः प्रोक्ताः सायम् -- राजकार्याणां प्रत्यूहः स्यात्, निर्जीयतामसौ शीघ्रम् | सूरिणा भणितम् - प्रातर्निग्रहीष्यामि, मा स्म वो भ्रान्तिर्भूयात् । रात्रौ सूरीश्वरेण मन्त्रशक्त्या मण्डले हारार्द्धहारमणिकुण्डल१५ मण्डिताङ्गी दिव्याङ्गरागवसना दिव्यकुसुमपरिमलवसितभुवनोदरा भगवती भारती साक्षादानीता । चतुर्दशभिः काव्यैः सद्यस्कै - दिव्यैः स्तुता । देव्योक्तम् — बत्स ! केन कारणेन स्मृता ? | सूरिवीरेण भणितम्- - पण्मासा वादे लग्नाः; तथा कुरु यथा बादे निरुत्तरीभवति सः । देव्या गदितम् -- वत्स ! अहमनेन २० प्राक् सप्तभवानाराधिता । मयाऽत्र भवेऽस्मै अक्षयवचना गुटिका दत्ताऽस्ति । तत्प्रभावाच्चक्रिनिविधनमिव नास्य वचो हीयते । सूरिणोक्तम् — त्वं देवि ! किं जैनशासनविरोधिनी येन मे जयश्रियं न दत्से ? | भारती ऊचे - वत्स ! जयोपायं ब्रुवे, त्वया वादारम्भे प्रातः सर्वे वदनशौचं काराप्याः पार्षद्याः । गण्डूषं
७४
२ ग
१" स्वाम्य-मात्य - सुहृत्- कोश- राष्ट्र - दुर्ग बलानि च" इत्यमरकोशे । 'गच्छाम इति' । ३ क ' भट्टैि च' । ४ घ' आमो [ अन ] गतः । ५ घ - ' तत्र जगाम । ६ ख - ' वंशं । ७ क ख - घ - 'समानिन्ये । घ-' प्रभाते नि०' ।
९
घ - 'लुलितभुव ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org