SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराये तत् तु सूरीणां पुरः समस्यात्वेन समर्पितवान् । सूरय ऊचुः'इत्थ घरे हलियवहू ईदहमित्तत्थणी वैसइ ॥१॥ राजा विस्मितः । अहो सारं सारस्वतम् ! । अन्यदा सायं प्रोषितभर्तृकां वासभेवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाथाई चोच्चैः सूर्यग्रे पपाठ-- _ 'दिज्झइ वंकग्गीवा--इ दीवओ पहियजायाए । सूरिगाथापूर्वार्द्धमुवाच-- "पियसंभरणपलुटुं-तअंसुधारानिवायभीयाए ॥ १ ॥ इति । सूरि-भूपौ सुखेन कालं गमयतो धर्मपरौ । ___ अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहितः । एत्या. १० वोचत्-राजन् ! तव विचक्षणतया धर्मनृपः सन्तुष्टः । पुनः स आह— भवद्भिर्वयं छलिसाः। यतो भवद्भ्यो गृहमागतेभ्यो नास्माभिर्महानल्पोऽपि कोऽपि सत्कारः कृतः। अधुना शृणुअस्मद्राज्ये वर्धनकुञ्जरो नाम महावादी बौद्धदर्शनी विदेशादागतोऽस्ति । स वादं जिघृक्षुः । यः कोऽपि वो राज्ये वादी भवति १५ स आनीयताम् । अस्माकं भवद्भिः सह चिरन्तनं वैरम् । यः कोऽपि वादी विजयी भविष्यति तत्प्रभुरपरस्य राज्यं ग्रहिष्यति । मम वादिना यदा जितं तदा त्वदीयं राज्यं मया ग्राह्यम् । येदा तव वादिना जितं तदा मदीयं राज्यं त्वया ग्राह्यम् । अयं पणः । वाग्युद्धमेवास्तु । किं मानवकदर्थनेन ? । आमेनोक्तम्--दूत ! २० त्वया यदुक्तं तद् धर्मेण कथापितमथवा त्वया स्वतुण्डकण्डूतिमात्रे १ छाया- अत्र गृहे हालिकवधूरेतावन्मात्रस्तना वसति । २घ- 'इद्दहमिहछणी'। ३ ग-'अत्थि' । ४ आर्या । ५ ख-'भुवनं '। ६-७ छाया-दृश्यते वक्रग्रीवया दीपकः पथिकजायया। प्रियस्मरणप्रलुठदश्रुधारामिपातमीत्या ॥ आर्या । ९ख-'यदि'। चतुर्विशति... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy