________________
७०
१०
चतुर्विशति प्रबन्धे
[९ श्रीबप्पमट्टिसूरि
राज्ञा प्रत्ययार्थं स समाकार्य पृष्टः । तेनोक्तम् - सत्यं सूविचः । इस्तौ दर्शितौ । राजा तेन वाक्संवादेन प्रीतः । 'अज्ज वि सा परितप्पड़' इत्यादि तदुक्तं सर्वं सारस्वतविलसितमिति निरवैषीत् । शीघ्र शीघ्रं 'गोपाल गिरिं गतः । पताकातोरणमञ्चप्रतिमञ्चादिमहास्तत्रासुः । दिवसाः कत्यप्यतिक्रान्ताः । ततः श्रीसिद्धसेन सूरयो वार्धकेन पीडिता अनशनं ग्रहीतुकामाः श्रीबप्पभट्टिसूरीणामाकारणाय गीतार्थमुनियुगलं प्रैषिषुः । ते तद् गुरोर्लेखमदीदृशन् । तत्र लिखितं यथा -
"अध्यापितोऽसि पदवीमधिरोपितोऽसि
तत् किञ्चनापि कुरु वत्सक! बप्पभट्टे ! प्रायोपवेशनरथे विनिवेश्य पेन
३
सम्प्रेषयस्यमरधाम नितान्तमस्मान् ॥ १ ॥
Jain Education International
तद् दृष्ट्वा आमभूपतिमापृच्छय ' मोढेरक' पुरं ब्रह्मशान्तिस्थापितवीर जिन महोत्सवाढ्यं प्रापुस्ते । गुरून् ववन्दिरे । गुरवोऽपि १५ सान् बाढमालिङ्ग्यालापिषुः । वत्स! गामुत्कण्ठितमस्माकं हृदयम् । मुखकमलकमपि ते विस्मृतम् । राजानुगमनं तेऽस्माकं दुःखायासीत् । कारय साधनाम् । अनृणो भव । ततोऽन्त्याराधना-चतुःशरणगमन - दुष्कृतगर्हा - सुकृतानुमोदन - तीर्थमालावन्दनादिका विधिना विधापिता । गुरवो देवलोकललनानयन त्रिभागपात्रत्व२० मानञ्चुः । शोक उच्छलितः । ततो बप्पभट्टिः श्रीमद्गोविन्दसूरये श्रीनन्नसूरये च गच्छमारं समर्प्य श्री आमपार्श्वमागतः । पूर्ववत् समस्या दिगोष्ठ्यः स्फुरन्ति ।
एकदा सूरिर्नृपसभायां चिरं पुस्तकाक्षरदत्तदृक् तस्थौ । तत्रैका नर्तकी नृत्यन्ती आसीद् रूपदासीकृताप्सराः । सूरिर्हग्नी लिन२५ वारणाय तस्याः शुकपिच्छनीलवर्णायां नीलकञ्चुलिकायां दृशं
१ ख- 'प्रैषिष्ट' । २ क- 'अध्यापितोऽपि । ३ वसन्त० १४ ग -- आगमन्' ।
❤
For Private & Personal Use Only
www.jainelibrary.org